________________
pa
नन्दिसूत्रम्
अवचूरीसमलंकृतम्।
READHOPUR
ये अभ्युपेतसम्यक्त्वाः प्रतिपन्नाणुव्रता अपि प्रतिदिवसं यतिभ्यः साधूनां अगारिणां च उत्तरोत्तरविशिष्टगुणप्रतिपत्तिहेतोः सामाचारी शृण्वन्ति ते श्रावकाः, श्रावकाश्च ते जनाश्च श्रावकजनाः, त एव मधुकर्यः, ताभिः परिवृतस्य, तथा 'जिनसूर्यतेजोबुद्धस्य' । जिन एव सकलजगत्प्रकाश कतया सूर्य इव-भास्कर इव जिनसूर्यः, तस्य तेजो विशिष्टसंवेदनप्रभवा धर्मदेशना, तेन बुद्धस्य । तथा श्राम्यन्ति इति श्रमणा 'नन्यादिभ्योऽन' [सि. हे. ५---१५२] इति कर्यनप्रत्ययः । श्राम्यन्ति तपस्यन्ति, किमुक्तं भवतिप्रव्रज्यारम्भदिवसादारभ्य सकलसावद्ययोगविरता गुरूपदेशेन प्राणोपरमात् यथाशक्ति अनशनादितपः चरन्ति । उक्तं च " यः समः सर्वभूतेषु वसेषु स्थावरेषु च । तपश्चरति शुद्धात्मा, श्रमणोऽसौ प्रकीर्तितः ॥ १॥ श्रमणानां गणः श्रमणगणः, स एव सहस्र पत्राणां यस्य तत् श्रमणगणसहस्रपत्रं तस्य ॥८॥
CARKX
भूयोऽपि संघस्य एव मौम्यतया चन्द्ररूपकणस्तबमाहतवसंजममयलंछण! अकीरियराहुमुहदुद्धरिम! निचं! जय संघचन्दनिम्मल! सम्मत्तविशुद्धजोण्डागा ! ॥९॥
तपःसंजम इत्यादि, तपश्च संयमश्च तपःसयम, समाहारो द्वंद्वः, तपःसंयम एव मृगलाञ्छनं-मृगरूपं चिह्नं यस्य तस्य आमन्त्रणं, हे तपःसंयममृगलाञ्छन !, तथा न विद्यन्तेऽनभ्युपगमात् परलोकविषयाः क्रिया येषां ते अक्रियाः-नास्तिकाः, त एव जिनप्रवचनशशाङ्कासनपरायणत्वात् राहुमुखं इवाक्रियाराहुमुखं तेन दुःप्रधृष्यो-अनभिभवनीयः,तस्यामन्त्रणं, हे अक्रियाराहुमुखदुःप्रधृष्य, सङ्घः