SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥१०६॥ जिता परिव्राजिका । तस्या एवं कर्तुं अशक्यत्वात्, ततः क्षुल्लकः कायिक्या पद्ममाऽऽलिखितवान्, सा कर्त्तुं न शक्नोति, ततो जिता परिव्राजिका । क्षुल्लकस्य औत्पत्तिकी बुद्धिः ॥ १३ ॥ 'मग्ग' त्ति मार्गोदाहरणं, तद्भावना - कोऽपि पुरुषो निजभार्यां गृहीत्वा वाहनेन ग्रामांतरं व्रजति, अपांतराले च क्वचित् प्रदेशे शरीरचितानिमित्तं तद्भार्या वाहनात् उत्तीर्णवती, तस्यां च शरीरचिंतानिमित्तं कियत् भूभागं गतायां तत्प्रदेशवर्तिनी काचित् व्यंतरी पुरुषस्य रूपसौभाग्यादिकं अवलोक्य कागानुरागतः तद्रूपेण आगत्य वाहनं विलना, सा च तत् भार्या शरीरचितां विधाय यावत् वाहनसमीपं आगच्छति तावदन्यां स्त्रियं आत्मसमानरूपां वाहनमधिरूढां पश्यति । सा च व्यंतरी पुरुषं प्रत्याह- एषा काचित् व्यंतरी मदीयं रूपं आरचय्य तव सकाशं अभिलषति । ततः खेटय २ सत्वरं सौरभेयाविति, ततः पुरुषस्तथैव कृतवान् । सा च आरटंती पश्चालमा समागच्छति । पुरुषोऽपि तां आरटंतीं दृष्ट्वा मूढचेता मंद मंदं खेटयामास ततः प्रावर्तत तयोस्तद्भार्याव्यं तयोर्निष्ठुर भाषणादिकः परस्परं कलहः, ग्रामे च प्राप्ते जातः तयो राजकुले व्यवहारः, पुरुषश्च निर्णयं अकुर्वन् उदासीनो वर्तते, ततः कारणिकैः पुरुषो दूरे व्यवस्थापितो भणिते च ते द्वे अपि स्त्रियौ युवयोः मध्ये या काचिदमुं प्रथमं हस्तेन संस्पृक्ष्यति तस्याः पति एष न शेषायाः, ततो व्यंतरी हस्तं दूरतः प्रसार्य प्रथमं स्पृष्टवती, ततो ज्ञातं कारणिकैरेषा व्यंतरीति, ततो निर्घटिता, द्वितीया च समर्पिता स्वपतेः । कारणिकानां औप्तत्तिकी बुद्धिः ॥ १४ ॥ 'इत्थि 'त्ति स्त्रीउदाहरणं, तद्भावना - मूलदेवकंडरिकौ सहपन्थानं गच्छतः, इतच कोऽपि सभार्याकः पुरुषः तेन एव पथा गंतु प्रावर्तत, कंडरीकश्च दूरस्थितस्तद्भार्यागतं अतिशायिरूपं दृष्ट्वा साभिलाषो जातः कथितं च तेन मूलदेवस्य - यदि इमां मे संपादयसि तदहं जीवामि, न अन्यथा इति, ततो मूलदेवोऽवादीत्, मातुरी भूः, अहं ते नियमतः संपादयिष्यामि । ततस्तौ द्वौ अपि अलक्षितौ सत्वरं दूरतो गतौ, ततो मूलदेवः अवचूरिसमलंकृतम् 1120811
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy