________________
नन्दिसूत्रम्
॥१०६॥
जिता परिव्राजिका । तस्या एवं कर्तुं अशक्यत्वात्, ततः क्षुल्लकः कायिक्या पद्ममाऽऽलिखितवान्, सा कर्त्तुं न शक्नोति, ततो जिता परिव्राजिका । क्षुल्लकस्य औत्पत्तिकी बुद्धिः ॥ १३ ॥ 'मग्ग' त्ति मार्गोदाहरणं, तद्भावना - कोऽपि पुरुषो निजभार्यां गृहीत्वा वाहनेन ग्रामांतरं व्रजति, अपांतराले च क्वचित् प्रदेशे शरीरचितानिमित्तं तद्भार्या वाहनात् उत्तीर्णवती, तस्यां च शरीरचिंतानिमित्तं कियत् भूभागं गतायां तत्प्रदेशवर्तिनी काचित् व्यंतरी पुरुषस्य रूपसौभाग्यादिकं अवलोक्य कागानुरागतः तद्रूपेण आगत्य वाहनं विलना, सा च तत् भार्या शरीरचितां विधाय यावत् वाहनसमीपं आगच्छति तावदन्यां स्त्रियं आत्मसमानरूपां वाहनमधिरूढां पश्यति । सा च व्यंतरी पुरुषं प्रत्याह- एषा काचित् व्यंतरी मदीयं रूपं आरचय्य तव सकाशं अभिलषति । ततः खेटय २ सत्वरं सौरभेयाविति, ततः पुरुषस्तथैव कृतवान् । सा च आरटंती पश्चालमा समागच्छति । पुरुषोऽपि तां आरटंतीं दृष्ट्वा मूढचेता मंद मंदं खेटयामास ततः प्रावर्तत तयोस्तद्भार्याव्यं तयोर्निष्ठुर भाषणादिकः परस्परं कलहः, ग्रामे च प्राप्ते जातः तयो राजकुले व्यवहारः, पुरुषश्च निर्णयं अकुर्वन् उदासीनो वर्तते, ततः कारणिकैः पुरुषो दूरे व्यवस्थापितो भणिते च ते द्वे अपि स्त्रियौ युवयोः मध्ये या काचिदमुं प्रथमं हस्तेन संस्पृक्ष्यति तस्याः पति एष न शेषायाः, ततो व्यंतरी हस्तं दूरतः प्रसार्य प्रथमं स्पृष्टवती, ततो ज्ञातं कारणिकैरेषा व्यंतरीति, ततो निर्घटिता, द्वितीया च समर्पिता स्वपतेः । कारणिकानां औप्तत्तिकी बुद्धिः ॥ १४ ॥ 'इत्थि 'त्ति स्त्रीउदाहरणं, तद्भावना - मूलदेवकंडरिकौ सहपन्थानं गच्छतः, इतच कोऽपि सभार्याकः पुरुषः तेन एव पथा गंतु प्रावर्तत, कंडरीकश्च दूरस्थितस्तद्भार्यागतं अतिशायिरूपं दृष्ट्वा साभिलाषो जातः कथितं च तेन मूलदेवस्य - यदि इमां मे संपादयसि तदहं जीवामि, न अन्यथा इति, ततो मूलदेवोऽवादीत्, मातुरी भूः, अहं ते नियमतः संपादयिष्यामि । ततस्तौ द्वौ अपि अलक्षितौ सत्वरं दूरतो गतौ, ततो मूलदेवः
अवचूरिसमलंकृतम्
1120811