SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥१०५॥ न. सू. ९ | देवी-देवि ! यामो देशांतराणि, देव्युपानहां भरं पार्श्वे स्थितं दृष्ट्वा पृष्टवती - रे किं एप उपानहांभरः ?, सोऽवादीत्-देवि ! यावंति देशांतराणि एतावतीभिः उपानद्भिः गंतुं शक्यानि तावत् सुदेव्याः कीर्त्तिर्विस्तारणीया । तत एवं उक्ते मा मे सर्वत्र अपकीर्त्तिर्जायेत इति परिभाव्य देवी बलात्तं धारयामास विटस्य औत्पत्तिकी बुद्धिः ॥ १० ॥ 'गोलो' ति गोलकोदाहरणं, तद्भावना - लाक्षागोलकः कस्यापि बालकस्य कथमपि नासिकामध्ये प्रविष्टः ततस्तन्मातापितरौ अतीव आत वभूवतुर्दर्शितो बालकः सुवर्णकारस्य, तेन सुवर्णकारेण प्रतप्ताग्रभागया लोहशलाकया शनैः शनैः यत्नतो लाक्षागोलको मनाक् प्रताप्य सर्वोऽपि समाकृष्टः । सुवर्णकारस्य औत्पत्तिकी बुद्धिः ॥ ११ ॥ 'खंभ' त्ति स्तंभोदाहरणं, तद्भावना - राजा मंत्रिणं एकं गवेषयन् महाविस्तीर्णतटाकमध्ये स्तंभं एकं निक्षेपयामास । तत एवं घोषणां कारितवान्- यो नाम तटे स्थितोऽमुं स्तंभं दवरकेण बनाति तस्मै राजा शतसहस्रं प्रयच्छति इति, तत एवं घोषणां श्रुत्वा कोऽपि पुमान् एकस्मिन् तटप्रदेशे कीलकं भूमौ निक्षिप्य दवरकेण बद्धा तेन दवरकेण सह सर्वतः तटे परिभ्रमन् मध्यस्थितं स्तंभं तं बद्धवान्, लोकेन च बुद्धिअतिशयसंपन्नतया प्रशंसितो, निवेदितश्च राज्ञो राजनियुक्तः पुरुषैस्तुतोष राजा, ततस्तं मंत्रिणं अकार्षीत् । तस्य पुरुषस्य औत्पत्तिकी बुद्धिः ॥ १२ ॥ 'खुडग' ति क्षुल्लकोदाहरणं, तद्भावना - कस्मिन्चित् पुरे काचित् परिव्राजिका, यो यत् करोति तदहं कुशलकम सर्व करोमि इति राज्ञः समक्षं प्रतिज्ञां कृतवती, राजा च तत् प्रतिज्ञासूचकं पटहं उद्घोषयामास तत्र च कोऽपि क्षुल्लको भिक्षार्थं अटन पटहशब्दं श्रुतवान् श्रुतश्च प्रतिज्ञार्थः । ततो धृतवान् पटहं, प्रतिपन्नो राजसमक्षं व्यवहारो, गतो राजकुलं क्षुल्लकस्ततः तं लघु दृष्ट्वा सा परिव्राजिकाऽऽत्मीयं मुखं विकृत्य अवज्ञयाऽभिधत्ते - कथय कुतो मिलामि ? तत एवमुक्ते क्षुल्लकः स्वं में दर्शितवान् ततो हसितं सर्वैः अपि जनैः, उद्द्घुष्टं च- अवचूरिसमलंकृतम् ॥१०५॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy