________________
नन्दिसूत्रम्
अवचूरिसमलंकृतम्
॥१०४॥
कारणिकैः द्वयोरपि पृथक् २ कृत्य ह्यस्तनदिनभुक्तआहारः पृष्टो, धिग्जातीयेन उक्तं-मया ह्यस्तनदिने तिलमोदका भक्षिता मद्भार्यया च, धृतन अन्यत्कि अपि उक्तं, ततो दत्तं तस्याः कारणिकै विरेकोषधं, जातो विरेको, दृष्टाः पुरीषांतर्गताः तिलाः, दत्ता सा | धिगजातीयाय, निर्घाटितो धूर्तः, कारणिकानां औत्पत्तिकी बुद्धिः ॥ ८ ॥ 'गय'ति गजोदाहरणं, तद्भावना-वसंतपुरे नगरे कोऽपि राजा बुद्ध्यतिशयसंपन्नं मंत्रिणमेकमन्वेषमाणश्चतुःपथे हस्तिनमालानस्तंभे बंधयित्वा घोषणामचीकरत् । यो इमं हस्तिनं तोलयति तस्मै राजा महतीं वृत्तिं प्रयच्छति इति । इमां च घोषणां श्रुत्वा कश्चिदेकः पुमान् हस्तिनं महासरसि नावं आरोहयामास । अस्मिंश्च आरूढे यावत् प्रमाणा नौः मले निमग्ना तावत् प्रमाणां रेखामदात्ततः समुत्तारितो हस्ती तटे, प्रक्षिप्ता गंडशैलकल्पा नावि ग्रावाणः, ते च तावत् प्रक्षिप्ता यावद् रेखां मर्यादीकृत्य जले निमग्ना नौः, ततः तोलिताः सर्वे पाषाणाः, कृतं एकत्र पलप्रमाणं निवेदितं च राज्ञो
देव! एतावत् पलपरिमाणो हस्ती वर्तते । ततस्तुतोष राजा, कृतो मंत्रिमंडलमूर्दाभिषिक्तः परममंत्री, तस्य औत्पत्तिकी बुद्धिः॥९॥ । 'घयण'त्ति भांडः, तत् उदाहरणं-विटो नाम कोऽपि पुरुषो राज्ञः प्रत्यासन्नवर्ती, तं प्रति राजा निजदेवीं प्रशंसति-16
अहो निरामया मे देवी या न कदाचित् अपि वातनिसर्ग विदधाति । विटः प्राह-देव! न भवति इदं जातुचित् , राजावादीतकथं ?, विट आह-देव! धुर्ता देवी, ततो यदा सुगंधीनि पुष्पाणि चूर्णयित्वा वासात् समर्पयति नासिकाग्रे तदा ज्ञातव्यं-वातं मुंचति इति । ततोऽन्यदा राज्ञा तथैव परिभावितं । सम्यग् अवगते च हसितं, ततो देवीहसननिमित्तकथनाय निबंधं कृतवती, ततो राजाऽतिनिबंधे कृते पूर्ववृत्तांतं अचीकथत् । ततश्रकोप देवी तस्मै विटाय, आज्ञप्तो देशत्यागेन, तेनापि ] जज्ञे-नूनं अकथयत् पूर्ववृत्तांतं देवो देव्यास्तेन मे चुकोप देवी । ततो महांत उपानहां भरमादाय गतो देवीसकाश, विज्ञापयामास
VESCREEXXR
॥१०४॥