SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥१०३॥ ततो वैद्यो विरेकौषधं तस्य प्रदाय लाक्षारसखरंटितं सरटं घटे प्रक्षिप्य तस्मिन् घटे पुरीषोत्सर्ग कारितवान् । ततो दर्शितो वैद्येन तस्य पुरीषखरंटितो घटे सरटो, व्यपगता तस्य शंका, जातो बलिष्ठशरीरो, वैद्यस्य औत्पत्तिकी बुद्धिः ॥ ६ ॥ 'काय' काकोदाहरणं, तत् भावना - वेन्नातटे नगरे केनापि सौगतेन कोऽपि श्वेतपटक्षुल्लकः पृष्टः- भो क्षुल्लक ! सर्वज्ञाः किल तब अर्हतः तत्पुत्रकाञ्च यूयं तत्कथय कियेतोऽत्र पुरे वसंति वायसाः ?, ततः क्षुल्लकः चिंतयामास - शठोऽयं प्रतिशठा चरणेन निर्लोठनीयस्ततः खबुद्धिवशात् इदं पठितवान् - " सहिकागसहस्सा इह विन्नायडे परि वसंति । जड़ ऊणगा पबसिया अन्महिया पाहुणा ॥ १ ॥ ततः स भिक्षुः ततः प्रत्युत्तरं दातुं अशक्रुवन् लकुटाहतशिरस्क इव शिरः कंड्यन मौनमाधाय गतः । लस्य औत्पत्तिकी बुद्धिः । अथवाऽपरो वायसदृष्टांत :- कोऽपि क्षुल्लकः केनापि भागवतेन दुष्टबुद्ध्या पृष्टो - भोः क्षुल्लक ! किं एकाको विष्ठां इतः ततो विक्षिपति ?, क्षुल्लकोऽपि तस्य दुष्टबुद्धितां अवगम्य तत् मर्मवित् प्रत्युत्तरं दत्तवान् - युष्मत्सिद्धांते हि जले च स्थले च सर्वत्र व्यापी विष्णुः अभ्युपगम्यते । ततो यौष्माकीर्ण सिद्धांत उपश्रुत्य एषोऽपि वायसोऽचिंतयत्- किं अस्मिन् पुरीषे समस्ति विष्णुः किं वा न इति, ततः स एवं उक्तको बाणाहतमर्मप्रदेश इव घूर्णितचेतसो मौनं अवलंब्य रुषा धूमायमानो गतः, क्षुल्लकस्य औत्पत्तिकी बुद्धिः ॥ ७ ॥ 'उच्चारे' चि, उच्चारोदाहरणं, तत् भावना - क्वचित् पुरे कोऽपि धिग्जातीयः, तस्य भार्याऽभिनवयोवनोद्भेदरमणीया लोचनयुगलवक्रिमावलोकनमहाभल्ली निपातताडितसकलका मिकुरंगहृदया प्रबल कामोन्मत्तमानसा, सोऽन्यदा धिग्जातीयः तथा भार्यया सह देशांतरं गंतुं प्रवृत्तोऽपांतराले च धूर्त्तः कोऽपि पथिको मिलितः, सा च धिग्जातीयभार्या तस्मिन् रतिं बद्धवती, ततो धूर्तः प्राह- मदीया एषा भार्या, विजातीयः प्राह मदीया इति, ततो राजकुले व्यवहारो जातः, ततः अवचूरिसमलंकृतम् ॥१०३॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy