________________
नन्दिसूत्रम्
॥१०३॥
ततो वैद्यो विरेकौषधं तस्य प्रदाय लाक्षारसखरंटितं सरटं घटे प्रक्षिप्य तस्मिन् घटे पुरीषोत्सर्ग कारितवान् । ततो दर्शितो वैद्येन तस्य पुरीषखरंटितो घटे सरटो, व्यपगता तस्य शंका, जातो बलिष्ठशरीरो, वैद्यस्य औत्पत्तिकी बुद्धिः ॥ ६ ॥ 'काय' काकोदाहरणं, तत् भावना - वेन्नातटे नगरे केनापि सौगतेन कोऽपि श्वेतपटक्षुल्लकः पृष्टः- भो क्षुल्लक ! सर्वज्ञाः किल तब अर्हतः तत्पुत्रकाञ्च यूयं तत्कथय कियेतोऽत्र पुरे वसंति वायसाः ?, ततः क्षुल्लकः चिंतयामास - शठोऽयं प्रतिशठा चरणेन निर्लोठनीयस्ततः खबुद्धिवशात् इदं पठितवान् - " सहिकागसहस्सा इह विन्नायडे परि वसंति । जड़ ऊणगा पबसिया अन्महिया पाहुणा ॥ १ ॥ ततः स भिक्षुः ततः प्रत्युत्तरं दातुं अशक्रुवन् लकुटाहतशिरस्क इव शिरः कंड्यन मौनमाधाय गतः । लस्य औत्पत्तिकी बुद्धिः । अथवाऽपरो वायसदृष्टांत :- कोऽपि क्षुल्लकः केनापि भागवतेन दुष्टबुद्ध्या पृष्टो - भोः क्षुल्लक ! किं एकाको विष्ठां इतः ततो विक्षिपति ?, क्षुल्लकोऽपि तस्य दुष्टबुद्धितां अवगम्य तत् मर्मवित् प्रत्युत्तरं दत्तवान् - युष्मत्सिद्धांते हि जले च स्थले च सर्वत्र व्यापी विष्णुः अभ्युपगम्यते । ततो यौष्माकीर्ण सिद्धांत उपश्रुत्य एषोऽपि वायसोऽचिंतयत्- किं अस्मिन् पुरीषे समस्ति विष्णुः किं वा न इति, ततः स एवं उक्तको बाणाहतमर्मप्रदेश इव घूर्णितचेतसो मौनं अवलंब्य रुषा धूमायमानो गतः, क्षुल्लकस्य औत्पत्तिकी बुद्धिः ॥ ७ ॥ 'उच्चारे' चि, उच्चारोदाहरणं, तत् भावना - क्वचित् पुरे कोऽपि धिग्जातीयः, तस्य भार्याऽभिनवयोवनोद्भेदरमणीया लोचनयुगलवक्रिमावलोकनमहाभल्ली निपातताडितसकलका मिकुरंगहृदया प्रबल कामोन्मत्तमानसा, सोऽन्यदा धिग्जातीयः तथा भार्यया सह देशांतरं गंतुं प्रवृत्तोऽपांतराले च धूर्त्तः कोऽपि पथिको मिलितः, सा च धिग्जातीयभार्या तस्मिन् रतिं बद्धवती, ततो धूर्तः प्राह- मदीया एषा भार्या, विजातीयः प्राह मदीया इति, ततो राजकुले व्यवहारो जातः, ततः
अवचूरिसमलंकृतम्
॥१०३॥