SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥१०९२॥ ऽप्येवमेव वेदनावद् वाच्यः, चतुर्णा प्रतिपद्यमानकः पूर्वप्रतिपन्नश्च भवतीत्यर्थः। 'पुव्वपडिवण्णए भयण त्ति' इदं साध्याहारं व्याख्येयम् , तद्यथा- यस्तु केवल्यादिसप्तविधसमुद्घातेन समवहतः स न किश्चित् सामायिक प्रतिपद्यते । पूर्वप्रतिपन्नके तु भजना सेवना समर्थना विधिः कार्य इति यावत् । समवहतो हि सामायिकद्वयस्य त्रयस्य वा पूर्वप्रतिपन्नको भवति । तत्र केवलिसमुद्धाते सम्यक्त्व-चारित्रसामायिकद्वयस्य पूर्वप्रतिपन्नको लभ्यते । शेषसमुद्धातेषु पुनर्देशविरतिवर्जसामायिकत्रयस्य चारित्रवर्जस्य वा सामायिकत्रयस्य पूर्वप्रतिपन्नः प्राप्यते ।। इति नियुक्तिगाथार्थः ।। २७४४ ॥ निर्वेष्टनो-द्वर्तनद्वारद्वयमाह देव्वेण य भावेण य निव्वेट्टतो चउण्हमण्णयरं । नरएसु अणुबट्टे दुग तिग चउरो सिउव्वट्टे ॥२७४५॥ द्रव्यतः सामान्येन सर्वकर्मप्रदेशान् , विशेषतस्तु तस्य चतुर्विधस्य सामायिकस्य यदावरणं ज्ञानावरण-मोहनीयलक्षणं तत्पदेशान् निर्वेष्टयन निर्जरयन् , भावतस्तु क्रोधाद्यध्यवसायान् निर्वेष्टयन हाययंश्चतुर्णामन्यरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येव । संवेष्टयंस्त्वनन्तानुवन्ध्यादीन् न प्रतिपद्यते, शेषकर्म त्वङ्गीकृत्योभयथाप्यस्ति । नरकेष्वधिकरणभूतेष्वनुद्वर्तयंस्तत्रस्थ एवेत्यर्थः, आयं सामायिकद्वयं प्रतिपद्यते, तदेव चाधिकृत्य पूर्वप्रतिपन्नो भवति । तत उद्धृत्तः स्यात् कदाचित् तिर्यक्षुत्पन्नः सर्वविरतिवर्जे सामायिकत्रयं प्रतिपद्यते, कदाचित्तु मनुष्येषूत्पन्नश्चत्वार्यपि प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येव ।। इति नियुक्तिगाथार्थः ॥ २७४५ ॥ भाष्यम् - कैम्मं निव्वेद॒तो पवज्जइ विसेसओ तदावरणं । दव्वं कम्मपएसे भावे कोहाइ हावितो ॥ २७४६ ॥ उक्तार्थैव ॥ २७४६ ॥ तदेवोद्वर्तनाद्वारं तिर्यगादीनधिकृत्याह'तिरिएसु अणुव्बट्टे तिगं चउक्कं सिया उ उबट्टे । मणुएसु अणुव्वट्टे चउरो बि तियं सिउव्वट्टे ॥२७४७॥ द्रव्येण च भावेन च निवेष्टयचतुर्णामन्यतरत् । नरकंप्वनुवर्तयन् हे त्रीणि चत्वारि स्यादुवृत्तः ॥ २७४५ ॥ २ कर्म निर्वेष्टयन् प्रपद्यते विशेषतस्तदावरणम् । व्यं कर्मप्रदेशान् भावे क्रोधादि जहत् ॥ २७५६ ॥ ३ तियक्ष्वनुवृत्तस्त्रिकं चतुष्कं स्यात् तूवृत्ते । मनुजेष्वनुवृत्तश्चत्वारि द्विकं त्रिकं स्यादुवृत्ते ॥ २७४७ ॥ ॥१०९२॥ Jan Education Intem For Personal and Price Use Only PALTiww.jainabrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy