SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१०९१ ॥ Jain Education Internats rasaस्थितायामपि कृष्णादिद्रव्यलेश्यायां नारक देवानां सम्यक्त्वादिलाभकाले शुभभावलेश्यासंभवो न विरुध्यते । इत्यलं विस्तरेण । तदर्थिना तु “ 'से नूणं भंते ! किण्हलेसा नलिलेसं पप्प नो तारूवत्ताए, नो तावन्नत्ताए" इत्यादि प्रज्ञापनासूत्रं मूलावश्यकटीका दिलिखितमनुसरणीयम् ॥ इति गाथाद्वयार्थः ॥ २७४२ ॥ अथ परिणामद्वारमाह वैड्ढते परिणामे पडिवज्जइ सो चउण्हण्णयरं । एमेव वड्ढियम्मि वि हायंते न किंचि पडिवज्जे ||२७४३॥ परिणामोऽध्यवसायविशेषः । तत्र शुभ-शुभतररूपतया वर्धमाने परिणामे प्रतिपद्यते स वर्धमानपरिणामो जीवश्चतुर्णां सम्यक्त्वादिसामायिकानामन्यतरदिति । एवमेत्र पूर्वोक्तन्यायेनान्तरकरणादाववस्थितेऽपि शुभे परिणामे प्रतिपद्यते स चतुर्णामन्यतरदिति । tयमाने तु क्षीयमाणे शुभे परिणामे न किश्चित् सामायिकं प्रतिपद्यते, संक्लिष्टत्वात् । प्राक्प्रतिपन्नस्तु त्रिष्वपि परिणामेषु भवतीति ।। २७४३ ।। अथ वेदना समुद्वातकर्मद्वारद्वयमाह - दुविहार वेणा पडिवज्जइ सो चउण्हमण्णयरं । असमोहओ वि एमेव पुव्वपडिवण्णए भयणा ॥२७४४ ॥ द्विविधायां वेदनायां साता-सातरूपायां सत्यां प्रतिपद्यते स चतुर्णामन्यतरत् प्राक्मीतपन्नश्च भवतीति द्वारम् । सम्एकीभावे, उत्- प्राबल्ये, वेदना- कषायाद्यनुभवपरिणामेन सहैकी भावमापत्नस्य जन्तोर्वेदनीयादिकर्मपुद्गलानां प्राबल्येन हननं घातः समुद्वातः । स च केवलिसमुद्वातादिभेदात् सप्तविधः । उक्तं च ""केवलि कसाय - मरणा वेयण- वेडव्वितेय आहोर । सत्तविहसमुग्धाओ पन्नत्तो वीयरागेहिं ॥ १ ॥" समुद्धात एव कर्म क्रिया समुद्वातकर्म तद्द्वारमितः प्रोच्यते । तत्र केवल्यादिसमुद्घातेन समवहतस्य विपक्षोऽसमवहतः । सो १ अथ ननं भगवन् ! कृष्णलेश्या नीललेश्यां प्राप्य नो तद्रूपतया नो तद्वर्णतया । २ वर्धमाने परिणामे प्रतिपद्यते स चतुर्णामन्यतरत् । एवमेव वर्धितेऽपि हीयमाने न किञ्चित् प्रतिपद्येत ॥ २७४३ ॥ ३ द्विविधायां वेदनायां प्रतिपद्यते स चतुर्णीमन्यतरत् । असमवतोऽप्येवमेव पूर्वप्रतिपन्नके भजना ॥ २७४४ ॥ ४ केवलि - कषाय-मरणानि वेदना वैक्रिय तेज आहाराः । सप्तविधसमुद्रातः प्रज्ञप्तो वीतरागैः ॥ १ ॥ For Personal and Private Use Only बृहद्वत्तिः । ॥१०९१॥ www.jainelibrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy