________________
ननु पूर्व ज्ञानपञ्चकविचारे मति-श्रुतादिज्ञानलाभः शुद्धावेव तैनसीप्रभृतिषु तिसृषु लेश्याखभिहितः, इह तु 'शुद्धाखशुद्धासु च विशेषा० पट्खपि सम्यक्त्व-श्रुतलाभोऽभिधीयमानः कथं न विरुध्यते ? इति ॥ २७४१ ॥
वृहद्वत्तिः। अत्र परिहारमाह॥१०९०॥
सुर-नेरइएसु दुगं लब्भइ य, दबलेसया सव्वे । नाणेसु भावलेसाऽहिगया इह दव्वलेसाओ ॥२७४२॥
इह तावत् सुर-नारकेष्वपि सम्यक्त्व-श्रुतसामायिकद्वयं लभ्यत एव । ते च सुर-नारकाः सर्वेऽप्यवस्थितद्रव्यलेश्या भवन्ति, यथासंभवं पडपि कृष्णादिद्रव्यलेश्यास्तेष्ववस्थिताः श्रुते प्रतिपाद्यन्त इत्यर्थः । भावलेश्यास्तु तेषां परावृत्या कस्यचित् काचिदेव भवति । तिर्यग्मनुष्याणां त्ववस्थिता द्रव्यलेश्या न भवन्ति, किन्तु द्रव्यलेश्या भावलेश्या च सर्वेषां परावर्तते । देव-नारकाणामपि द्रव्यलेश्यैवावस्थिता, भावलेश्या तु तेषामपि परावृत्त्या कदाचित् काचिदेव भवति । ततश्च सुर-नारका अपि यदा सम्यक्त्वादिकं
लभन्ते तदा भावलेश्या तैजस्यादीनामन्यतरा शुद्धैव भवति, अशुद्धा तु नित्यावस्थितत्वात् तेषां द्रव्यलेश्यैव द्रष्टव्या न तु भावले2 श्या । एवं च स्थिते ज्ञानेषु मत्यादिषु पूर्व लाभचिन्तायां भावलेश्यैवाधिकृता- भावलेश्यामेवाङ्गीकृत्य शुद्धलेश्याशये तल्लाभ उक्त
इत्यर्थः । इह तु सम्यक्त्व-श्रुतसामायिकलाभचिन्तायां देव-नारकानाश्रित्य द्रव्यलेश्या अधिकृताः, तेन शुद्धास्वशुद्धासु च सर्वासु | a लेश्यासु तल्लाभ उक्त इति भावः । भावलेश्यामङ्गीकृत्य पुनरिहापि शुद्धावेव तिसृषु तैजस्पादिलेश्यासु तल्लाभोऽवगन्तव्यः । इति न . 1 कश्चिद् विरोधः। 1 आह-ननु यदि देव-नारकाणां कृष्णादिका अशुभा द्रव्यलेश्याः सदाऽवस्थिता भवन्ति तदा सम्यक्त्वादिलाभकाले कथं | - तेषां शुभभावलेश्यासंभवः । द्रव्यलेश्या हि भावलेश्या जनयन्ति । ततः कृष्णादिलेण्याद्रव्याण्यशुभानि कथं शुभभावलेश्या जन
येयुः, अशुभकारणात् शुभकार्यायोगात् ? इति । सत्यम् , किन्तु नारकादीनामपि सम्यक्त्वादिलाभकाले कथमपि यथाप्रवृत्तिकरणेन शुभानि तैजस्यादिद्रव्यलेश्याद्रव्याण्याक्षिप्यन्ते । ततो यथाऽऽदर्शः श्वेतोऽपि जपा-कुसुमादिवस्तुप्रतिविम्बसंक्रान्तौ रक्तादिरूपता प्रतिपद्यते तथा कृष्णाद्यशुभद्रव्याण्यपि तैजस्यादिशुभद्रव्यप्रतिविम्बसंक्रमे निजरूपोत्कटतां परित्यज्य तदाभासतां प्रतिपद्यन्ते । ततो नारकादीनामपि कृष्णाद्यशुभद्रव्यानुभावं मन्दतां नीत्वा शुभानि तेजस्यादिद्रव्याणि शुभां भावलेश्यां जनयन्ति ।
R ॥१०९०॥ ३ सुर-नरषिकेषु द्विकं लभ्यते घ, द्रव्यलेश्यकाः सर्वे । ज्ञानेषु भावलेश्या अधिकृता इह इम्पलेश्याः ॥ २७४२ ॥
OPPERelalekoooosicepotoa