SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ विशेषा न्यावगाहनाः सम्यक्त्व-श्रुतयोः पूर्वप्रतिपन्नाः संभवन्ति, न तु प्रतिपद्यमानकाः । मध्यमो-स्कृष्टावगाहनास्त्वेतयोः प्रतिपद्यमानकाः संभवन्ति, पूर्वप्रतिपन्नास्तु सन्त्येव । तिर्यश्चस्तु पञ्चेन्द्रिया जघन्यावगाहनाः सम्यक्त्व श्रुतयोः पूर्वप्रतिपन्नाः संभवन्ति न तु प्रतिप॥१०८९॥ द्यमानकाः, उत्कृष्टावगाहनास्तु षड्गव्यूतास्तयोधिापि लभ्यन्ते । मध्यमावगाहनास्तु द्वयोस्त्रयाणां वा सर्व विरतिवर्जितानां प्रतिपद्यमानकाः संभवन्ति पूर्वप्रतिपन्नास्तु त्रयाणां सन्त्येव ॥ इति नियुक्तिगाथार्थः ॥ २७३८ ।। अथ भाष्यम् ने जहन्नोगाहणओ पवजए, दोण्णि होज्ज पडिवन्नो। उक्कोसोगाहणगो दुहा वि दो तिन्नि उ तिरिक्खो॥२७३९॥ जघन्यावगाहनो गर्भजमनुष्यस्तिर्यक् च न किश्चित् प्रतिपद्यते, द्वयोस्त्वाद्ययोः पूर्वप्रतिपन्नो भवेत् । उत्कृष्टावगाहनस्त्वनयो. विधापि पूर्वप्रतिपन्नः प्रतिपद्यमानकश्च भवति । मध्यमावगाहनो मनुष्यश्चतुर्णामपि सामायिकानां पूर्वप्रतिपन्नः प्रतिपद्यमानश्च लभ्यत FO इति द्रष्टव्यम् । पश्चेन्द्रियतिर्यक् पुनयोराद्ययोः, त्रयाणां वा सर्वविरतिवर्जितानां 'द्विवापि' इत्यत्रापि वर्तते, पूर्वप्रतिपन्नः प्रतिपद्यमानश्च भवति ।। इति गाथार्थः ।। २७३९ ॥ अथ लेश्याद्वारमाह सम्मत्त सुयं सव्वासु लहइ सुद्धासु तीसु य चरित्तं । पुवपडिवन्नओ पुण अन्नयरीए उ लेसाए ॥२७४०॥ सम्यक्त्व-श्रुतसामायिके सर्वास्वपि कृष्णादिकासु शुक्लान्तासु षट्स्वपि लेश्यासु लभते प्रतिपद्यते नारकादिः। चारित्रं तु देश-सर्वविरतिलक्षणं शुद्धास्वेवोपरितनीषु तैजसी-पद्म-शुक्ललक्षणासु तिसृषु लेश्यासु प्रतिपद्यते । पूर्वप्रतिपन्नः पुनः षण्णामन्यतरस्यामपि लेश्याय चारित्री सम्यग्दृष्टिश्च प्राप्यते ।। इति नियुक्तिगाथार्थः ॥ २७४० ॥ अथ भाष्यकारः प्रेर्यमुत्थापयन्नाहनणु मइ-सुथाइलाभोऽभिहिओ सुद्धासु तीसुलेसासु।सुद्धासु असुद्धासु य कहमिह सम्मत्त-सुयलाभो?॥२७४१॥ १०८९॥ न जघन्यावगाहनकः प्रपद्यते, हे भवेत् प्रतिपन्नः । उत्कृष्टावगाहनको द्विधापि द्वे त्रीणि तु तिर्यक् ॥ २७३९ ॥ २ सम्यक्त्वं श्रुतं सर्वासु लभते शुद्धासु त्रिषु च चारित्रम् । पूर्वप्रतिपन्नकः पुनरन्यतरस्यां तु लेश्यायाम् ॥ २७४० ॥ ३ ननु मति श्रुतादिलाभोऽभिहितः शुद्धासु तिसृषु लेश्यासु । शुद्धास्वशुद्धासु च कथमिह सम्यक्त्व-श्रुतलाभः ? ॥ २७४१ ॥ Jan Education Intemat For Personal and Price Use Only Alww.jainabrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy