SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१०८८॥ Jain Educatora Internat यद् यस्मादन्तरकरणे मिथ्यात्वस्यानुदयस्तेन तस्माद् न हीयते तस्य परिणामः, हानिकारणाभावात् । यस्मात् पुनः सत्तागतं मिथ्यात्वमुपशान्तं विष्कम्भितोदयमपनीतमिध्यास्वभावं च तेनास्य परिणामो न वर्धते । यथा हि वनदवो दाह्याभावाद् न वर्धते किन्तु विध्यायति, इत्येवं वेद्यस्य मिथ्यात्वस्याभावात् तत्क्षपणायानिवृत्तिकरणवद् नोपशमिकसम्यग्दृष्टेः परिणामो वर्धते, किन्त्ववस्थित एवास्ते, अतोऽवस्थितपरिणामत्वमिति ।। २७३६ ।। 'ओरालिए चक्क ' इत्यादेर्व्याख्यानमाह - दुगपडित्ती उब्वियम्मि सव्वाइं पुव्त्रपडिवन्नो । देसव्वयवज्जाई आहाराईसु तीसुं तु ॥ २७३७ ॥ उक्तार्था, नवरमाहारकशरीरे देशविरतिवर्जसामायिकत्रयं पूर्वप्रतिपन्नमवाप्यते, चतुर्दश पूर्वविदो देशविरतेरभावात् शेषाणां तु पूर्वप्रतिपन्नत्वेन प्रतिपत्तेरसंभवादिति । तैजस-कार्मणयोस्तु केवलिसमुद्वाते चतुर्थ- पञ्चम- तृतीयसमयेषु सम्यक्त्व चारित्रसामायिकस्य, विग्रहगतौ तु सम्यक्त्व- श्रुतयोः पूर्वप्रतिपन्नः प्राप्यते ।। इति गाथासप्तकार्थः ॥ २७३७ ॥ अथ संस्थानादिद्वारत्रयमाह - सेव्वसु वि संठाणेसु लहइ एमेव सव्वसंघयणे । उक्कोसजहन्नं वज्जिऊण माणे लभे मणुओ ॥ २७३८ ॥ संस्थितिः संस्थानमाकारविशेषलक्षणं, तच्च 'समचउरसे निग्गोहमंडले' इत्यादिभेदात् षोढा । तत्र सर्वेष्वपि संस्थानेषु लभते प्रतिपद्यते चत्वार्यपि सामायिकानि, 'प्राक् प्रतिपन्नोऽप्यस्ति' इत्यध्याहारः । 'एमेव सव्वसंघयणे त्ति' संहतिः संहननमस्थिसंचयविशेषः, तानि च वज्रर्षभनाराचादिभेदात् षड् भवन्ति । एतेषु च यथा संस्थानेष्वेवमेव निरवशेषो विचारः कर्तव्यः, पूर्वप्रतिपन्नानि प्रतिपद्यमानानि चैतेष्वपि चत्वारि लभ्यन्त इत्यर्थः । 'उक्कोसेत्यादि' मीयते इति मानं शरीरस्य प्रमाणमवगाहनेत्यर्थः । तत्र मनुष्यस्योत्कृष्टमानं त्रीणि गव्यूतानि, जघन्यं त्वङ्गुलासंख्येयभागः, एतदुत्कृष्टं जघन्यं च मानं वर्जयित्वा मध्यमशरीरमाने वर्तमानो मनुष्यो लभते प्रतिपद्यते ' चत्वार्यपि सामायिकानि' इति प्रक्रमाद् गम्यते । पूर्वप्रतिपन्नस्त्वस्त्येव । जघन्यावगाहस्तु गर्भजमनुष्यः सम्यक्त्व- श्रुतयोः पूर्वप्रतिपन्नः संभवति, न तु प्रतिपद्यमानकः । उत्कृष्टावगाहनस्तु त्रिगव्यूतः सम्यक्त्व श्रुतयोर्द्विधाऽप्यस्ति । नारक देवा अपि जघ १] द्विप्रतिपत्तिक्रिये सर्वाणि पूर्वप्रतिपन्नः । देशव्रतवजीम्याहारकादिषु त्रिषु तु ॥ २७३७ ॥ २ सर्वेष्वपि संस्थानेषु लभत एवमेव सर्वसंहनने । उत्कर्ष जघन्ये वर्जयित्वा माने लभते मनुजः ॥ २७३८ ॥ ३ समचतुरस्र न्यग्राधमण्डलम् । For Personal and Private Use Only बृहद्वत्तिः । ॥१०८८॥ www.jainelibrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy