SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥१०८७॥ प्यविवक्षितत्वात् सूत्रेऽग्रहणम् । आदिशब्दात् श्रुत-देश-सर्वविरतिसामायिकलाभपरिग्रहः । अयमत्र भावार्थः- यथा “सव्वाओ लद्धीओ सागारोवओग-" इत्यादिक आगमः, तथा 'उवओगदुगम्मि चउरो पडिवज्जे' इत्ययमप्यागम एव, अतः परस्परप्रतिस्पर्द्धिसैद्धान्तिकवचसा व्यवस्था न्याय्या, सा चेयम् - याः सम्यक्त्वं लब्ध्वा मिथ्यात्वं गताना पुनरपि कुतश्चित् शुभोदयात् प्रतिक्षणं प्र. वर्धमानाध्यवसायवतां सम्यक्त्व-चारित्रादिलब्धयो भवन्ति, याश्चावध्यादिलब्धय उत्पद्यन्ते ताः सर्वाः साकारोपयोगोपयुक्तस्य द्रष्टव्याः। यास्तु प्रथमसम्यक्त्वलाभकालेऽन्तरकरणपविष्टस्यावस्थिताध्यवसायस्य सम्यक्त्वादिलब्धयो भवन्ति ता अनाकारोपयोगेऽपि भवन्ति न कश्चिद् दोषः । अन्तरकरणे च वर्तमानः सम्यक्त्व-श्रुतसामायिकलाभसमकालमेव कश्चिदतिविशुद्धत्वाद् देशविरतिम् , अपरस्त्वतिविशुद्धत्वात् सर्वविरतिमपि प्रतिपद्यते, इत्यौपशमिकसम्यक्त्वलाभकालेऽवस्थितपरिणामस्यानाकारोपयोगवर्तिनोऽपि चत्वार्यपि सामायिकानि भवन्ति, स्वल्पत्वाच्चैतदत्रागमे न विवक्षितमिति ॥ २७३३ ॥ कथं पुनरिदमौपशमिकसम्यक्त्वं जीवस्याभ्युपगन्तव्यम् ? इत्याह ऊसरदेसं दविल्लयं व विज्झाइ वणदवो पप्प । इय मिच्छस्स अणुदए उवसमसम्मं मुणेयव्वं ॥२७३४ ॥ यथोपरदेशं पूर्ववददग्धप्रदेश वा प्राप्य वनदवो विध्यायति, इत्येवमन्तरकरणं प्राप्य मिथ्यात्वस्यानुदये मिथ्यात्वोदयवहावुपशान्त औपशमिकं सम्यक्त्वं जीवस्य मुणितव्यमिति ॥ २७३४ ।। कदा पुनरिदं भवति ? इत्याह ठेवसामगसेढिगयस्स होइ उवसामगं तु सम्मत्तं । जो वा अकयतिपुंजो अखवियमिच्छो लहइ सम्मं ॥२७३५॥ प्रागुक्तार्था ।। २७३५ ॥ कथं पुनरस्यापशमिकसम्यक्त्वलाभेऽवस्थितपरिणामत्वम् ? इत्याहजं मिच्छस्साणुदओ न हायए तेण तस्स परिणामो। जं पुण सयमुवसंतं न वड्ढए तेण परिणामो ॥२७३६॥ , ऊपरदेशं दग्धमिव विध्यायति वनदवः प्राप्य । इति मिथ्यात्वस्यानुदय उपशमसम्यक्त्वं ज्ञातव्यम् ॥ २०३४ ॥ २ उपशमकश्रेणिगतस्य भवत्युपशामकमत्र सम्यक्वन् । यो वाऽकृतत्रिपुञ्जोऽक्षपितमिथ्यात्वो लभते सम्यक्त्वम् ॥ २०३५ ॥ ३ यद् मिथ्यात्वस्यानुदयो न हीयते सेन तस्य परिणामः। यत् पुनः सदुपशान्तं न वधते तेन परिणामः ॥ २७३६ ॥ १०८७॥ For Personal and Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy