________________
विशेषा ॥१०८६||
रिकशरीरे सामायिकचतुष्कमुभयथाऽप्यस्ति । सम्यक्त्व-श्रुतयोक्रियशरीरे भजना विकल्पना कार्या- देवादि कदाचित् ते प्रतिपद्यते, कदाचिद् नेति । देशविरति-सर्वविरतिसामायिके तु वैक्रियशरीरिणस्तिर्यग्-मनुष्या अपि न प्रतिपद्यन्ते, विक्रियाप्रवृत्तित्वेन किल तेषां प्रमत्तत्वादिति । पूर्वप्रतिपन्नस्तु वैक्रियशरीरे चतुर्णामपि प्राप्यत एव । शेषशरीरविचारः प्रस्तुतगाथायामेवादौ निरूपितयोगद्वारानुसारत एव भावनीयः।। इति नियुक्तिगाथार्थः ॥ २७३०॥
यदुक्तम् ' उवओगदुगम्मि चउरो पडिवज्जे' इति । तत्र भाष्यकारः प्रेर्यमुत्थापयन्नाह
सव्वाओ लडीओ जइ सागारोवओगभावम्मि । इह कहमुवओगदुगे लब्भइ सामाइयचउक्कं ? ॥२७३१॥
आह- ननु, "सबाओ लद्धीओ सागारोवओगोवउत्तस्स भवंति" इत्यागमे प्रोक्तम् , ततो यद्येतस्मादागमात् सर्वा अपि लब्धयः साकारोपयोग एव भवन्ति तर्हि कथमिह पोच्यते- 'उपयोगद्वयेऽपि सामायिकचतुष्टयं लभ्यते' इति ? ॥ २७३१ ॥
अत्र परिहारमाहसो किर निअमो परिवड्ढमाणपरिणामयं पइ, इहं तु । जोऽवट्ठियपरिणामोलभेज्ज सलभिज्ज बीए वि॥२७३२॥
'सव्वाओ लद्धीओ' इत्यादिको यस्त्वयाऽऽगमोक्तनियमोऽभिधीयते स फिल परिवर्धमानपरिणामकं जीवं पति द्रष्टव्यः । इह च प्रस्तुते योऽवस्थितपरिणामो जीवः सामायिकानि लभते, स द्वितीयेऽप्यनाकारोपयोगे लभेत तानि, इति न विरोधः ॥२७३२॥
आह-ननु यद्येवमनाकारोपयोगेऽपि लब्धौ सत्या 'सवाओ लद्धीओ सागारोवओग-' इत्याद्यागमे साकारोपयोगस्यैव ग्रहणं किमर्थम् ? इत्याशङ्कयाह
पायं पवड्ढमाणो लभए सागारगहणया तेण । इयरो उ जइच्छाए उवसमसम्माइलाभम्मि ॥ २७३३ ॥
पायो बाहुल्येन वर्धमानः प्रवर्धमानपरिणाम एव जीवो लब्धीलभते, तेनागमे साकारोपयोगस्यैव ग्रहणं कृतम् । इतरस्त्ववस्थितपरिणामो यदृच्छया सकृत् कदाचिदेवौपशमिकसम्यक्त्वादिलाभकाले प्राप्यते, इत्यनाकारोपयोगस्य स्वल्पत्वेन सतोऽ
१सर्वा लब्धयो यदि साकारोपयोगभावे । इह कथमुपयोगबिके लभ्यते सामायिकचतुष्कम् ? ॥ २७३१ ॥ २ सर्वा लब्धयः साकारोपयोगोपयुक्तस्य भवन्ति ।। ३स किल नियमः परिवर्धमानपरिणामकं प्रति, इह तु । योऽवस्थितपरिणामो लमेत स लभेत द्वितीयेऽपि ॥ २७३२ ॥ ४ मायः प्रबर्धमानो लभते साकारग्रहणं तेन । इतरस्तु यदरछयोपशमसम्यक्त्वादिलामे ॥ २७३३॥
॥१०८६॥
For Personal and
Use Only