________________
विशेषा०
॥१०७०॥
Jain Educatora Interna
इदानीमवयवार्थ उच्यते । तत्रोर्ध्वलोकादिक्षेत्रमङ्गीकृत्य सम्यक्त्वादिसामायिकानां लाभादिभावमभिधित्सुराह
सम्म सुयाणं लाभो उड्ं य अहे य तिरियलोएय । विरई मणुस्सलोए विरयाविरई य तिरिए || २६९५ ॥
सम्यक्त्व श्रुतसामायिकयोर्लाभः प्राप्तिरूर्ध्वं चाधथ तिर्यग्लोके भवति, तत्रोर्ध्वलोके मेरु-सुरलोकादिषु निसर्गतोऽधिगमाद् वा सम्यक्त्व सामायिकस्य, तथा श्रुताज्ञानस्य तत्समकालमेव श्रुतज्ञानतया परिणामात् श्रुतसामायिकस्य च लाभो भवति । एवमधोलोकेऽप्यधोलौकिकग्रामेषु नरकेषु च ये सम्यक्त्वं प्रतिपद्यन्ते तेषां यथोक्तसामायिकद्वयलाभो वक्तव्यः । एवं तिर्यग्लोकेऽपि यथोसामायिकद्वय लाभो वक्तव्यः । इह च त्रिष्वपि लोकेषु यथोक्तसामायिकद्वयं लभ्यत एवेतीत्थमवधारणीयम्, न पुनर्यथोक्तसामायिकद्रयमेव लभ्यत इति यत आह- 'विरई मणुस्सलोए त्ति' तिर्यग्लोकविशेषभूतेऽर्धतृतीयद्वीप समुद्रलक्षणे मनुष्यलोके विरतिः सर्वविरतिसामायिकमपि लभ्यते । इदं चैव लभ्यते नान्यत्रेति द्रष्टव्यम्, मनुष्या एवैतत्प्रतिपत्तारो नान्य इत्यर्थः । क्षेत्रनियमं तु विशिष्ट विद विदन्ति । विरताविरतिश्व देशविरतिसामायिकलक्षणा लाभविचारे तिर्यक्षु भवति, मनुष्येषु च केषुचिदिति || २६९५ ॥
पुव्वपडिवण्णया पुण तीसु वि लोएसु नियमओ तिन्हं । चरणस्स दोसु नियमा भयणिज्जा उड्ढलोगम्मि || २६९६॥ पूर्वप्रतिपन्नास्तु त्रयाणां सामायिकानां नियमेन त्रिष्वपि लोकेषु विद्यन्ते । चतुर्थस्य सामायिकस्य द्वयोरेवाधोलोक-तिर्यलोकयोः पूर्वप्रतिपन्ना नियमतः सन्ति । ऊर्ध्वलोके पुनर्भाज्याः कदाचिद् भवन्ति कदाचिद् नेति । गतं क्षेत्रद्वारम् || २६९६ ।। अथ दिग्द्वारं प्रतिपिपादयिषुर्दिक्स्वरूपं तावद् निरूपयन्नाह -
नामं ठवणा दविए खेत्त - दिसा तावखेत्त- पण्णवए । सत्तमिया भावदिसा परूवणा तस्स कायव्या || २६९७|| इह नाम- स्थापनादिक, तथा, द्रव्य-क्षेत्रदिक् तापक्षेत्र - प्रज्ञापकविषया दिग् वक्तव्या । तथा, सप्तमी च भावदिग् वक्तव्या । तत्र तस्य नामदिगादिसप्तकस्य प्ररूपणा कर्तव्या ।। इति नियुक्तिगाथाषट्कार्थः ।। २६९७ ।।
अथ नाम-स्थापने क्षुण्णे, द्रव्यदिक्स्वरूपविचारणार्थमाह-
१ सम्यक्त्व- श्रुतयोर्लाभ ऊर्ध्वं चाधश्च तिर्यग्लोके च । विरतिर्मनुष्यलोके विरतावितिश्च तिर्यक्षु ।। २६९५ ॥
२ पूर्वप्रतिपन्नकाः पुनस्त्रिष्वपि लोकेषु नियमतस्त्रयाणाम् । चरणस्य द्वयोर्नियमाद् भजनीया ऊर्ध्वलोके ।। २६९६ ।।
३ नाम स्थापना ये क्षेत्र दिकू तापक्षेत्र- प्रज्ञापकयोः । सप्तमी भावदिक् प्ररूपणा तस्य कर्तव्या | २६९७ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१०७० ॥
www.jainelibrary.org