________________
विशेषा०
॥१०६९।
Jain Educatora Intern
सामाइयम्मि उ कए समणो इव सावओ हवइ जम्हा । एएण कारणेणं बहुसो सामाइयं कुज्जा || २६९० || कृते पुनर्गृहस्थसामायिकेऽपि श्रमण इव श्रावको भवति, यस्मात् प्रायोऽशुभयोगरहितत्वाद् बहुतरकर्मनिर्जरोऽसौ भवतीति भावः । अनेन कारणेन बहुशोऽनेकधा सामायिकं कुर्याद् मध्यस्थो भूयादिति ।। २६९० ।।
मध्यस्थस्यैव लक्षणमाह
जो न विवइ रागे नवि दोसे दोण्ह मज्झयारम्मि । सो होइ उ मज्झत्थो सेसा सन्धे अमज्झत्था ॥ २६९१ ॥ सुगता, नवरं मध्ये राग-द्वेषयोरन्तराले तिष्ठतीति मध्यस्थः, न रागेण स्पृश्यते, नापि द्वेषेणेति भावः ॥ इति नियुक्तिगाथाद्वयार्थः ।। २६९१ ।।
अथ 'क्व किं सामायिकम् । इति निरूपणार्थ द्वारगाथात्रयमाह -
खेत - दिसि काल-गई भविय- सन्नि - ऊप्तास - दिट्ठि -माहारे । पज्जत्त-सुत्त - जम्म- डिई वेय सण्णा - कसाया -ऽऽउं॥२६९२ ॥ नाणे जोगु-वओगे सरीर-संठाण संघयण-माणे । लेसापरिणामं वेयणा य समुग्धायकम्मे य || २६९३ ॥ निव्वेट्टणमुव्वट्टे आसवकरणं तहा अलंकारं । सयणा-सण-हाणडे चंकमंते य किं कहियं ॥ २६९४ ॥
आसां समुदायार्थः क्षेत्र-दिक्-काल- गति-भव्य-संज्ञि उच्छ्रास-दृष्टि- आहार कानङ्गीकृत्यालोचनीयं 'किं कहियं ति' 'किं कसामायिकम् १' इति संबन्धः; तथा पर्याप्त सुप्त-जन्म-स्थिति-वेद-संज्ञा- कषायाऽऽयूंषि चेति । तथा, ज्ञानं योगो-पयोगो, शरीर-संस्थान-संहनन-मानानि, लेश्यापरिणामं वेदनां समुद्धातकर्म चाश्रित्यालोचनीयं 'किं क सामायिकम् ?' इति । तथा, निवेष्टनोद्वर्तने आश्रवकरर्णम्, तथाऽलङ्कारम्, शयना - Ssसन स्थानस्थांश्चङ्क्रमतश्चाश्रित्य चिन्तनीयं 'किं क सामायिकम् ?' इति || २६९२||२६९३॥२६९४॥
१ सामायिकेतु कृते श्रमण इव श्रावको भवति यस्मात् । एतेन कारणेन बहुशः सामायिकं कुर्यात् ॥ २६९० ॥
२ यो न विवर्तते रागे नापि द्वेषे द्वयोर्मध्ये स भवति तु मध्यस्थः शेषाः सर्वेऽमध्यस्थाः ॥ २६९१ ॥
३ क्षेत्र-दिक्-काल-गतीर्भविक-संज्ञि- उच्छ्रास-दृष्ट्या SSहारान् । पर्याप्त सुप्त-जन्म-स्थितीर्वेद संज्ञा- कषाया-ऽऽयूंषि ।। २६९२ ।। ज्ञानं योगो-पयोगौ शरीर-संस्थान संहनन-मानानि । लेश्यापरिणामं वेदनां च समुद्धात कर्म च ।। २६९३ ।। निर्वेष्टन मुद्रर्तनमात्रवकरणं तथाऽलङ्कारम् | शयना-ऽऽसन स्थानस्थश्चकमतश्च किं छ ? ।। २६९४ ।।
For Personal and Private Use Only
बृहद्वत्तिः ।
॥ १०६९॥
www.jainelibrary.org