________________
Craterdiceleso
विशेषा
॥१००५॥
मुपगताः सूरयः।
गोष्ठामाहिलेन च श्रुतमिदं यथा- 'गुरवः परलोकं गताः। ततो मथुरातः समागतेन पृष्टमनेन यथा- 'को गणधरः स्वपदे । मूरिभिनिवेशितः ?' । ततः सर्वोऽपि वल्लादिघटप्ररूपणादिको व्यतिकरः समाकर्णितो लोकात् । तच्छ्रवणाचातीव दुनोऽसो स्थित्वा पृथक् प्रतिश्रये दुर्बलिकापुष्पमित्रोपाश्रये तच्चर्योपलम्भार्थं गतः । तैश्च सर्वैरप्यभ्युत्थितोऽसौ, भणितश्च यथा-तिष्ठत यूयमत्रवोपाश्रये, किमिति पृथग् व्यवस्थिताः । तच्च नेच्छत्यसौ । पृथगुपाश्रयव्यवस्थितश्च दुर्बलिकापुष्पमित्रापवादग्रहणादिना व्युद्ग्राहयति साधून् , न च व्युद्ग्राहयितुं शक्नोति । दुबैलिकापुष्पमित्रसमीपे चाभिमानतो न किञ्चित् शृणोति, किन्तु व्याख्यानमण्डलिकास्थितस्य चिन्तनिकां कुर्वतो विन्ध्यस्यान्तिके समाकर्णयति । अन्यदा चाष्टम-नवमपूर्वयोः कर्म-प्रत्याख्यानविचारेभिनिवेशाद् विप्रतिपनो वक्ष्यमाणनीत्या निद्ववो जात इति ।।
अथ प्रकृतगाथाक्षरार्थोऽनुश्रीयते-कालो मरणं तल्लक्षणो धर्मः पर्यायः कालधर्मस्तं गुरोरार्यरक्षितस्य श्रुत्वा, तथा पुष्पमित्रं च गच्छेऽधिपतिं स्थापितमाकर्ण्य गोष्ठामाहिलो मत्सरितभावः संजातः ॥ २५११॥
मत्सराध्यवसायः किलेदं चकार । किम् ? इत्याह
'वीसु वसहीए ठिओ छिद्दन्नेसणपरो य स कयाए । विझस्स सुण्णइ पासेऽणुभासमाणस्स वक्खाणं ॥२५१२॥
विष्वग्वसतौ स्थितश्छिद्रान्वेषणपरः स गोष्ठामाहिलः कदाचिद् विन्ध्यस्यानुभाषमाणस्य चिन्तनिकां कुर्वतः पार्थे व्याख्यानं शृणोतीति ॥ २५१२॥
ततः किम् ? इत्याह
कम्मप्पवायपुव्वे बद्धं पुढे निकाइयं कम्मं । जीवपएसेहिं समं सूईकलावोवमाणाओ ॥ २५१३ ॥ उबट्टणमुक्केरो संथोभो खवणमणुभवो वावि । अणिकाइयम्मि कम्मे निकाइए पायमणुभवणं ॥२५१४॥
॥१००५
विष्वग्वसतौ स्थितश्छिद्रान्वेषणपरश्च स कदाचित् । विन्ध्यस्य शृणोति पार्वेऽनुभाषमाणस्य व्याख्यानम् ॥ २५१२॥ २ कर्मप्रवादपूर्वे बद्धं स्पृष्टं निकाचितं कर्म । जीवप्रदेशः समं सूचीकलापोपमानात् ॥ २५१३ ॥
अपवर्तममुस्करा संस्तभिः क्षपणमनुभवो वापि । अनिकाचिते कर्मणि निकाचित प्रायोऽनुभवमम् ॥ २५१४॥
Jan Education Intem
For Personal and Price Use Only