________________
दृहद्वात्तः।
ततो यविकेष्वायुःश्रेणावुपयोगं दत्वा मूरिभिर्विज्ञातम्- नायं मनुष्यो व्यन्तरादिर्वा, किन्तु द्विसागरोपमस्थितिकोऽसौ सौधर्माधिपतिः । विशेषा। ततश्च वार्धक्येनाधापतिते करेण भुवावुक्षिप्य निरीक्ष्य च प्रोक्तम्- 'शको भवान्' । एवं चाभिहिते तुष्टेन देवाधिपतिना निवेदितः
सर्वोऽपि तीर्थकरसमीपनिगोदश्रवणादिव्यतिकरः । ततः पृष्टाः शक्रेण निगोदजीवाः । प्ररूपिताश्च विस्तरतः । ततस्तुष्टमानसेन ॥१००४॥ सुरपतिना प्रणम्य 'बजामि' इति प्रोक्तेऽभिहितं गुरुभिः-तिष्ठत क्षणमेकं, यावत् साधवः समागच्छन्ति येन युष्माभिदृष्टैरिदानीमपि
देवेन्द्रागमनमस्तीति विज्ञाय स्थैर्यमुत्पद्यते तेषामिति । ततस्त्रिदशपतिना प्रोक्तम्- भदन्त ! करोम्येवम् , केवलं स्वाभाविकं मत्स्वरूपं दृष्टाऽल्पसत्त्वा निदानं करिष्यन्ति । ततो गुरुणा प्रोक्तम्- तर्हि निजागमनसूचकं किमपि चिरं कृत्वा व्रजत । ततस्तस्योपाश्रयस्यान्यतोऽभिमुखं द्वारं कृत्वा गतस्त्रिदशपतिः । आगतैश्च साधुभिरान्यत्वदर्शनविस्मितैः पृष्टे कथितं सर्व मूरिभिरिति । अन्यदा च ते विहरन्तो दशपुरनगरमागताः।
इतश्च मथुरानगर्या 'मातापित्रादिकमपि नास्ति' इत्यादिनास्तिकवादं प्ररूपयन् वादी समुत्थितः । तत्र च प्रतिवादिनः or कस्यचिदभावात् संघेनार्यरक्षितसूरय एवं सांप्रत युगप्रधाना इति कृत्वा तत्समीपे प्रस्तुतव्यातकरकथनाय साधुसङ्घाटकं प्रेषितम् ।।
स्वयमतीव वृद्धत्वाद् गन्तुमशक्तैः 'वादलब्धिसंपन्नः' इति कृत्वा गोष्ठामाहिलो निरूपितः । तत्र च तेन गत्वा निगृहीतोऽसौ वादी । श्रावकैश्चायं तत्रैव वर्षाकालं कारितः।
इतश्चार्यरक्षितसूरिभिर्निजपट्टे दुर्बलिकापुष्पमित्रः स्थापयितुमध्यवसितः। शेषस्तु स्वजनभूतः साधुवर्गो गोष्ठामाहिलं फल्गुरक्षितं कि वा तमीहते । ततश्च सर्वमपि गच्छमुपवेश्य सूरयः संबोधयन्ति, तद्यथा-इह किल त्रयो घटा भृताः। तत्रैको वल्लानाम् , द्वितीयो तिलस्य,
तृतीयस्तु घृतस्य । एतेषु चावाङ्मुखेषु कृतेषु वल्लाः सर्वेऽपि निर्गच्छन्ति । तैलं तु किञ्चिद् घटेऽपि लगति । घृतं तु बहुतरं तत्र ल
गति । तदहं दुर्बलिकापुष्पमित्रं प्रति सूत्रार्थों समाश्रित्य वल्लघटकल्पः संजातः, मद्तयोः समस्तयोरपि तयोस्तेन ग्रहणात् । फल्गुKO रक्षितं तु प्रति तिलघटकल्पोऽहं संपन्नः, सर्वयोरपि सूत्रा-ऽर्थयोस्तेनाग्रहणात् । गोष्ठामाहिलं तु प्रति घृतघटकल्पोऽहमभूवम् , बहुतरयोः
सूत्रार्थयोर्ममापि पार्थेऽवस्थानात् । तस्माद् मद्गताशेषमूत्रार्थसंपन्नत्वाद् दुर्बलिकापुष्पमित्र एव भवतां मूरिर्भवतु । ततः 'इच्छामः' इति भणित्वा तैः सर्वैरपि प्रतिपन्नमिदम् । मूरिभिरप्यभिहितो दुर्बलिकापुष्पमित्रो 'यथाऽहं वर्तितः फल्गुरक्षिते गोष्ठामाहिले च तथा भवता
1१००४|| मपि वर्तितव्यम् । गच्छोऽप्यभिहितः- 'यथा मया सार्धं भवद्भिर्वर्तितं तथाऽनेनापि सार्धं वर्तितव्यम् । अपि च, अहं कृतेऽकृते वा नारुष्यम् , अयं तु न सहिष्यति, ततः सुतरामस्य विनयेन वर्तितव्यम् । इत्याद्यनुशास्ति पक्षद्वयस्यापि दत्त्वा भक्तं प्रत्याख्याय देवलोक
Jan Education Intem
For Personal and Price Use Only