SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ बृहद्वारी विशेषा० ॥१००३ अत्र भाष्यम् सोऊण कालधम्मं गुरुणोगच्छम्मि पूसमित्तं च । ठवियं गुरुणा किल गोट्ठमाहिलो मच्छरियभावो ॥ २५११॥ इह च सर्वासामपि गाथानां भावार्थ आर्यरक्षितकथानकादवसेयः । तच्च विस्तरतो मूलावश्यकादवगन्तव्यम् । संक्षेपतस्त्विहापि किश्चिदुच्यते तद्यथा दशपुरं नाम नगरम् । तत्र च सोमदेवो नाम ब्राह्मणः । तस्य च रुद्रसोमा नाम भार्या । सा च जिनवचनप्रतिबुद्धा श्राविका । तयोश्च रक्षितो नाम चतुर्दशविद्यास्थानपारगः पुत्रो बभूव । तेन च मातृप्रेरितेन तोसलिपुत्राचार्याणां समीपे दीक्षा प्रतिपन्ना । एकादशाङ्गानि दृष्टिवादोऽपि यावान् गुरुसमीप आसीत् तावान् सर्वोऽपि गृहीतः। शेषस्त्वार्यवैरस्वामिनः समीपेऽधीतो यावद् नव पूर्वाणि, तथा चतुर्विंशतियविकानि । ततः फल्गुरक्षितो नाम तद्वन्धुराकारणार्थ मात्रा प्रेषितः प्रवाजितश्च । ततो द्वावपि मातापितृसमीपे समायातौ । ततश्चार्यरक्षितेन मातापितरौ तथा मातुलगोष्ठामाहिलप्रमुखः सर्वोऽपि खजनवर्गः प्रवाजितः । एवमपरापरांश्च प्रत्राजयत आर्यरक्षितसूरेमहान् गच्छो जातः । तत्र च गच्छे दुर्बलिकापुष्पमित्र-घृतपुष्पमित्र-वस्त्रपुष्पमित्रसंज्ञास्त्रयः पुष्पमित्रा आसन् । तत्र दुर्बलिकापुष्पमित्रेण नव पूर्वाण्यधीतानि । इह च गच्छे चत्वारः पुरुषाः प्रधानतराः, तद्यथा- दुर्बलिकापुष्पमित्रः, विन्ध्यः, फल्गुरक्षितः, गोष्ठामाहिलश्चेति । तत्रः मूरिभिदुबेलिकापुष्पमित्रो विन्ध्यस्य वाचनां दापितः। तस्य च तां प्रयच्छतो गुणनाभावादात्मनो नवमपूर्व गलति । ततः मूरिभिरेवंभूतस्यापि प्राज्ञस्य यदित्थं मूत्रार्थविस्मृतिः संपद्यते तदाऽशेषाणां मूत्राणां दुरुद्धरः मूत्रार्थः संपत्स्यते, इति विचिन्त्य पूर्वोक्तक्रमेणानुयोगः पार्थक्येन व्यवस्थापितः । नयाश्च प्रायो निगृहितविभागाः कृता इति । अन्यदा च ते आयरक्षितमूरयो विहारक्रमेण मथुरानगरी गताः । तत्र च भूतगुहायां व्यन्तरगृहे स्थिताः । इतश्च शक्रो महाविदेहे सीमन्धरस्वामितीर्थकरसमीपे निगोदवक्तव्यतां श्रुत्वा विस्मितः पृष्टवान्- किं भगवन् ! भरतक्षेत्रेऽपि सांप्रतममुमतीव सूक्ष्म निगोदविचारं कोऽपि बुध्यते प्ररूपयति च। ततो भगवता प्रोक्तम्- प्ररूपयन्त्यायरक्षितमूरयः। एतच्च श्रुत्वा विस्मय-कौतुक-भक्तिभरपूर्यमाणमानसो देवेन्द्रः स्थविरब्राह्यणरूपं कृत्वा साधुषु भिक्षाच- गतेष्वायरक्षितसमीपमुपययौ। ततस्तेनायरक्षितमूरयो वन्दित्वा पृष्टाः- भगवन् ! महान् व्याधिर्वतते, तेनाहमनशनं कर्तुमिच्छामिः तत् कथयत मम कियदायुष्कम् ? इति । ३ श्रुत्वा कालधर्म गुरोर्गच्छे पुष्पमित्रं च । स्थापितं गुरुणा किल गोष्ठामाहिलो मत्सरितभावः ॥ २५११॥ SEARNaac ॥१००३।
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy