________________
वृहद्वृत्तिः ।
ततो भस्मखरण्डितवपुषा तेनाभिनिवेशात् स्वपतिकल्पितान् द्रव्यादिपदार्थानाश्रित्य वैशेषिकमतं प्रणीतम् । तच्चान्यान्यैस्तच्छिष्याविशेषादिभिरियन्तं कालं यावत् ख्यातिमानीतमिति ॥ २५०६ ॥ २५०७॥
ननु रोहगुप्त इत्येवास्य नाम, तत् कथं षडुलूक इत्यसकृत् प्रागुक्तोऽसौ ? इत्याह--- ॥१००२॥
नामेण रोहगुत्तो गुत्तेण लप्पए स चोलूओ। दव्वाइछप्पयत्थोवएसणाओ छलूउ त्ति ॥ २५०८॥
नाम्नाऽसौ रोहगुप्तो गोत्रेण पुनरुलूकगोत्रसंभूतत्वादसावुलूक इत्यालप्यते-द्रव्य-गुण-कर्म-सामान्य-विशेष-समगयलक्षणषट्पदार्थप्ररूपणेन पदपदार्थप्रधान उलूकः षडुलूक इत्ययं व्यपदिश्यते ।। इत्यष्टपश्चाशद्गाथार्थः ॥ २५०८ ॥
॥ इति रोहगुप्तनामा षष्ठनिहवः समाप्तः ॥
अथ सप्तममभिधित्सुराह
पंच सया चुलसीया तइया सिद्धिं गयस्स वीरस्स । तो अबद्धियदिट्ठी दसउरनयरे समुप्पन्ना ॥ २५०९॥ पञ्च वर्षशतानि चतुरशीत्यधिकानि तदा सिद्धिं गतस्य महावीरस्य ततोऽवद्धिकनिवदृष्टिदशपुरनगरे समुत्पन्नेति ॥ २५०९॥ कथं पुनरियमुत्पन्ना ? इत्याह--
देसउरनगरुच्छुघरे अज्जरक्खिय पूसमित्ततिगयं च । गोट्ठामाहिल नवम-ठमेसु पुच्छा य विंझरस ॥२५१०॥
दशपुरनगर इक्षुगृहे आर्यरक्षितः 'दीक्षां जग्राह' इति शेषः । तस्य च घृतपुष्पमित्र-वस्त्रपुष्पमित्र-दुर्वलिकापुष्पमित्रलक्षणं शिष्यत्रयं । बभूव । गोष्ठामाहिलश्च तच्छिष्योऽष्टमे कर्मप्रवादपूर्वे नवमे च प्रत्याख्यानपूर्वे व्याख्यायमाने कर्मवन्धविचारे प्रत्याख्यानविचारे च विप्रतिपनो विधि प्रेरितवानिति ।। २५१० ॥
1 नाना रोहगुप्तो गोत्रेण कष्यते स चोलूकः । द्रव्यादिषट्पदार्थोपदेशनात् पडुलूक इति ॥ ॥ २५०८ ॥ २ पञ्च शतानि चतुरशीत्यधिकानि तदा सिद्धिं गतस्य वीरस्य । ततोऽवद्धिकदृष्टिदशपुरनगरे समुत्पन्ना ॥ २५०९ ॥ ३ दशपुरनगर इक्षुगृहे आर्यरक्षितः पुष्पमित्रत्रिककं च । गोष्ठामाहिलोऽष्टम-नवमयोः पुच्छा च विन्ध्यस्य ॥ २५ ॥
RSS శాంతతం తం రాంరం
साह
॥१००२॥
Per Personal and
Use Only