________________
PRINS
बृहदत्तिः ।
विशेषा० ॥१००६॥
सताउMaralore
सोउं भणइ सदोसं वक्खाणमिणं ति पावइ जओभे। मोक्खाभावो जीवप्पएसकम्माविभागाओ ॥२५१५॥ ___ इह कर्मप्रवादनाम्न्यष्टमे पूर्व कर्मविचारे प्रस्तुते दुर्वलिकापुष्पमित्र एवं व्याख्यानयति, तद्यथा- जीवप्रदेशैः समं बद्धं बद्धमात्रमेव कर्म भवति, यथाऽकपायस्येर्यापथप्रत्ययं कर्म । तच्च कालान्तरस्थितिमवाप्यव जीवप्रदेशेभ्यो विघटते, शुष्ककुड्यापतितचूर्णमुष्टिवदिति । अन्यत्तु 'पुढे ति' 'बद्धम्' इत्यत्रापि संबध्यते । ततश्च बद्धं स्पृष्टं चेत्यर्थः । तत्र बद्धं जीवेन सह संयोगमात्रमापनम् , स्पृष्टं तु जीवप्रदेशैरात्मीकृतम् । एतच्चेस्थं बद्धं सत् कालान्तरेण विघटते, आर्द्रलेपकुड्ये सस्नेहचूर्णवदिति । 'निकाइयं ति' 'बद्धं' | स्पृष्टं च' इत्यत्रापि संबध्यते । ततश्चापरं किमपि कर्म बद्धं स्पृष्टं निकाचितं भवतीत्यर्थः । तत्र तदेव बद्धस्पृष्टं गाढतराध्यवसायेन | बद्धत्वादपवर्तनादिकरणायोग्यता नीतं निकाचितमुच्यते । इदं च कालान्तरेऽपि विपाकतोऽनुभवमन्तरेण पायो नापगच्छति, गाढत| रबद्धत्वात् , आईकुड्याश्लेषितनिबिडचेटिकाहस्तकवदिति । अयं च त्रिविधोऽपि बन्धः सूचीकलापोपमानाद् भावनीयः, तद्यथा
गुणाऽऽवेष्टितमूचीकलापोपमं बद्धमुच्यते, लोहपट्टबद्धमूचीसंघातसदृशं तु बद्धस्पृष्टमित्यभिधीयते, बद्धस्पृष्टनिकाचितं त्वग्नितप्तघनाहतिक्रोडीकृतसूचीनिचयसंनिभं भावनीयमिति । नन्वनिकाचितस्य कर्मणः को विशेषः ? इत्याह- 'उबट्टणेत्यादि' इह कर्मविषयाण्यष्टौ करणानि भवन्तिः उक्तं च--
"बंधण-संकमणु-व्वट्टणा य उवट्टणा उईरणया । उवसावणा निवत्ती निकायणा च त्ति करणाई ॥१॥"
तत्र निकाचिते कर्मणि स्थित्यादिखण्डनरूपा 'उव्वट्टणं ति' अपवर्तना प्रवर्तते । तथा 'उक्केरो ति' स्थित्यादिवर्धनरूप उत्कोच उद्वर्तना । तथा 'संथोभो ति' असातादेः सातादौ क्षेपणरूपः संक्रमः । तथा 'खवणं ति' प्रकृत्यन्तरसंक्रमितस्य कर्मणः प्रदेशोदयेन निर्जरणं क्षपणम् । तथा 'अणुभवो त्ति' खेन स्खेन रूपेण प्रकृतीनां विपाकतो वेदनानुभवः । इदं चोपलक्षणमुदीरणादीनाम् । तदेतान्यपवर्तनादीनि सर्वाण्यनिकाचिते कर्मणि प्रवर्तन्ते, निकाचिते तु प्रायो विपाकेनानुभव एव प्रवर्तते, न पुनरपवर्तनादीनि, इत्यनयोधिशेषः । समाकीर्णविकृष्टतपसामुत्कटाध्यवसायवलेन 'तैवसा उ निकाइयाणं पि' इति वचनाद् निकाचितेऽपि कर्मण्यपवर्तनादिकरणप्रवृत्तिर्भवतीति प्रायोग्रहणम् ।
, श्रुत्वा भणति सदोषं व्याख्याचामिदमिति प्रामोति यतो भवताम् । मोक्षाभावो जीवप्रदेशकर्माविभागात् ॥ २५१५॥ २ बन्धन-संक्रमणा-उपवर्तनाचोद्वर्तनोदीरणा । उपश्रावणा निवृत्तिनिकाचना चेति करणानि ॥ १॥ ३ तपसा तु निकाचितानामपि ।
॥१००६॥
PORD
For Personal and
Use Only