________________
विशेषा०
॥१०४६॥
Jain Education International
तानि मोक्षमार्गत्वेन वदन्ति नैगमादयः, न तु 'ज्ञानादित्रयादेव मोक्षः' इति नियमं कुर्वते, नयत्वहानिप्रसङ्गात् । अत एते मिथ्यादृष्टय इति ।। २६२४ ॥
'सैदु-ज्जुसुयाणं पुण' इत्यादि गाथादलं व्याख्यातुमाह
उज्जुसुयाइमयं पुण निव्वाणपहो चरित्तमेवेगं । न हि नाण-दंसणाई, भावे वि न तेसिं जं मोक्खो ॥ २६२५ ॥
ऋजुसूत्रस्य, त्रयाणां च शब्दनयानां पुनश्चारित्रसामायिकमेवैकं निर्वाणमार्ग इति हि मतम्, हि शब्दः पुनरर्थे; न पुनः श्रुतज्ञानसामायिकं सम्यग्दर्शन सामायिकं च मोक्षमार्गस्तेषामनुमत इत्यर्थः यद् यस्मात् तयोर्ज्ञान दर्शनसामायिकयोः सद्भावेऽपि चारित्रमन्तरेण न मोक्षः । तस्मादन्वयव्यतिरेकाभ्यां चारित्रसामायिकमेवैकं तन्मतेन मोक्षमार्ग इति ।। २६२५ ।।
एतदेव भावयति-
सव्वाणदंसणलं वि न तक्खणं चिय विमोक्खो । मोक्खो य सव्वसंवरलाभे मग्गो स एवाओ || २६२६ ॥ यद्यस्मात् सर्वे परिपूर्ण ज्ञानं सर्वज्ञानं क्षायिकं ज्ञानं केवलज्ञानमिति यावत् तथा, सर्व संपूर्ण दर्शनं सर्वदर्शनं क्षायिकसम्यक्त्वमित्यर्थः, तयोर्लाभेऽपि न तत्क्षणमेव विमाक्षो मुक्तिसद्भावः । भवति च मोक्षः, कदा ? इत्याह- सर्वसंवररूपचारित्रसामाकिलाभे । अतोऽन्वयव्यतिरेकाभ्यां स एव सर्वसंवररूपचारित्रलाभो मोक्षमार्ग इति ॥ २६२६ ॥
अत्र पर माह
आ न नाण- दंसणरहियस्सेव सव्वसंवरो दिट्ठो । तस्सहियस्सेव तओ तम्हा तितयं पि मोक्खपहो ॥ २६२७॥
आह- ननु सोsपि सर्वसंवररूपचारित्रलाभो ज्ञान- दर्शन रहितस्याकस्मादेवोपजायमानो न कस्यापि दृष्टः, किन्तु तत्सहितस्यैव प्रागुत्पन्नज्ञान- दर्शनस्यैव तको यथोक्तचारित्रलाभः संजायते । तस्मात् त्रितयमपीदं मोक्षमार्ग इति । अतोऽयुक्तमुक्तम्- "निव्वाणं संजमो चेव' इति ॥ २६२७ ॥
१ गाथा २६२१ । २ ऋजुसूत्रादिमतं पुनर्निर्वाणपथश्चारित्रमेवैकम् । न हि ज्ञान दर्शने, भावेऽपि न तयोर्यद् मोक्षः ॥ २६२५ ॥ ३ यत् सर्वज्ञान दर्शनलाभेऽपि न तत्क्षणमेव विमोक्षः । मोक्षश्च सर्वसंवरलाभे मार्गः स एवातः ॥ २६२६ ॥ ४ आह ननु ज्ञान दर्शनरहितस्य न सर्वसंवरो दृष्टः । तत्सहितस्यैव सकस्तस्मात् त्रितयमपि मोक्षपथः ॥ २६२७ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१०४६ ॥
www.jainelibrary.org