SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१०४५।। Jain Education Internati अथ यस्य नयस्य यत् सामायिकं मोक्षमार्गत्वेनानुमतम्, तद्दर्शनस्वरूपमनुमतद्वारं विभणिपुराह - daiजमोऽणुमओ नेग्गंथं पवयणं च ववहारो । सदु-ज्जुसुयाणं पुण निव्वाणं संजमो चेव || २६२१॥ तापयतीति तपस्तत्प्रधानः संयमस्तपःसंयमश्चारित्रसामायिकमित्यर्थः । तथा, निर्ग्रन्थानामिदं नैर्ग्रन्थ्यमार्हतमिति भावना, प्रवचनं, श्रुतसामायिकमित्यर्थः । चशब्दोऽनुक्तसम्यक्त्वसामायिकपरिग्रहार्थः । एतानि त्रीण्यपि सामायिकानि मोक्षमार्गत्वेन ममानुमतानीति ब्रूते व्यवहारनयः । एतद्ग्रहणे चाधोवर्तिनौ नैगम-संग्रहावपि गृहीतौ द्रष्टव्यौ । ततश्चेदमुक्तं भवति — नैगम-संग्रह-व्यवहारास्त्रविधमपि सामायिकं मोक्षमार्गतयाऽनुमन्यन्ते । शब्द-र्जुमूत्रयोः पुनर्निर्वाणं निर्वाणमार्गोऽभिमतः संयम एव चारित्रसामायिकमेवेत्यर्थः, नेतरे द्वे, सर्वसंवररूपचारित्रानन्तरमेव मोक्षप्राप्तेः ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ २६२१ ॥ विस्तरार्थं भाष्यकारः प्राह are नयस्साणुमयं किं सामाइयमिह मोक्खमग्गो ति । भन्नइ नेगम-संगह ववहाराणं तु सव्वाइं ॥ २६२२ ॥ तवसंजमो ति चरितं निग्गंथ पत्रयणं ति सुयनाणं । तग्गहणे सम्मत्तं चग्गहणाओ य बोद्धव्वं ॥ २६२३ ॥ गाथाद्वयमपि गतार्थम्, नवरं 'सव्वाई ति' सम्यक्त्व श्रुत चारित्ररूपाणि त्रीण्यपि सामायिकानीत्यर्थः ॥ ॥ २६२२||२६२३॥ अथ परप्रेर्यमाशङ्कय परिहरन्नाह - तिन्निवि सामइयाइं इच्छंता मोक्खमग्गमाइल्ला । किं मिच्छद्दिडीया, वयंति जं समुइयाई पि ॥ २६२४ || आह- नन्वाया नैगम-संग्रह-व्यवहार लक्षणास्त्रयो नया उक्तन्यायेन चारित्र श्रुत-सम्यक्त्वरूपाणि सामायिकानि मोक्षमार्गत्वेच्छन्तः किमिति मिध्यादृष्टयः :- किमिति नयमतमिदं गीयते ?- संपूर्ण जिनमतमेव कस्मादेतद् न भवति ? इत्यर्थः । न हि जैनरपि ज्ञान-दर्शन- चारित्रेभ्योऽन्यदूनमधिकं वा किमपि मोक्षमार्गत्वेनेष्यते ? । अत्रोत्तरमाह- 'वयंतीत्यादि' यद् यस्मादसमुदितान्यप्ये १ तपः संयमोऽनुमतो नैग्रन्थ्यं प्रवचनं च व्यवहारः शब्द-जुसूत्रयोः पुनर्निर्वाणं संयम एव ॥ २६२१ ॥ २ कस्य नयस्यानुमतं किं सामायिकमिह मोक्षमार्ग इति भण्यते नैगम-संग्रह-व्यवहाराणां तु सर्वाणि ।। २६२२ ।। तपःसंयम इति चरितं नैन्थ्यं प्रवचनमिति श्रुतज्ञानम् । तद्ग्रहणे सम्यक्स्वं चग्रहणाच्च वोढव्यम् ॥ २६२३ ।। ३ त्रीण्यपि सामायिकानीच्छन्तो मोक्षमार्गमाद्याः । किं मिथ्यादृष्टयो, वदन्ति यदसमुदितान्यपि ॥ २६२४ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ।।१०४५।। www.jainelibrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy