________________
विशेषा०
॥। १०४४ ॥
Jain Education Internati
'भज्जं परिहरणाए' इत्यत्र कारणं भाष्यकारोऽप्याह
जत्थ विसेसं जाणइ लोगो तेसिं च कुणइ भत्ताई । तं कप्पइ साहूणं सामन्नकयं पुनरकप्पं ॥२६१८॥ गतार्था, नवरं 'सामनकयं ति' निह्नवरूपतां विशेषेण तेषामज्ञात्वा सामान्येन यत् कृतं तदकल्प्यमित्यर्थः ।। २६१८ ।। आह— बोटिकानां यत् कारितम्, तत्र का वार्ता १ इत्याह
मिच्छाद्दिहियाणं जं तेसिं कारियं जहिं जत्थ । सव्वं पि तयं सुद्धं मूले तह उत्तरगुणे य ॥ २६१९ ॥ मिथ्यादृष्टीनां वोटिकानां यदशनादि तेषां कारितं यस्मिन् काले यत्र क्षेत्रे तद् मूलगुणविषयम्, उत्तरगुणविषयं च सर्वमपि शुद्धं साधूनां कल्पनीयम् ।। इति नियुक्तिगाथार्थः ॥ २६१९ ॥
भाष्यम्
"भिन्नमय-लिंग-चरिया मिच्छद्दिट्ठित्ति बोडियाऽभिमया । जं ते कयमुद्दिसिउं तं कप्पइ जं च जइजोग्गं ॥ २६२०॥
मतं च लिङ्गं च भिक्षाग्रहणादिविषया चर्या च मत-लिङ्ग-चर्या:, भिन्ना मत-लिङ्ग-चर्या येषां ते तथाभूताः सन्तो बोटिका मिथ्यादृयोsभिमताः, भिन्नमतत्वादिकारणात् ते निर्मुक्तिकृता मिथ्यादृष्टित्वेन निर्दिष्टा इत्यर्थः । यचाशनादि तानुद्दिश्य कृतं तत् साधूनां कल्पते । आह- ननु वोटिकानुद्दिश्य सचित्तं कर्कटिका - दाडिमाद्यपि क्रियते, अचित्तं चानन्तकाय वृन्ताकाद्यपि संस्कृत्य विधीयते, तत् किं सर्वमपि साधूनां कल्पते । न, इत्याह- 'जं च जड्जोगं ति' तानुद्दिश्य कृतमपि यदेव यतीनां साधूनां योग्यमुक्तं प्राशुकमेषणीयं समये चानुज्ञाते, तदेव कल्पते नान्यत् । इति गाथार्थः ॥ २६२० ॥
॥ तदेवमवसिता निह्नववक्तव्यता ॥
॥ तदवसाने चावसितं सप्रसङ्गं समवतारद्वारम् ॥
१ यत्र विशेषं जानाति लोकस्तेषां च करोति भक्तादि । तत् कल्पते साधूनां सामान्यकृतं पुनरकरूप्यम् ॥ २६१८ ॥
२ मिध्यादृष्टिकानां यत् तेषां कारितं यदा यत्र । सर्वमपि तत् शुद्धं मूले तथोत्तरगुणे च ॥ २६१९ ॥
३ मत लिङ्ग चर्या मिथ्यादृष्टय इति बोटिका अभिमताः । यत् तान् कृतमुद्देिश्य तत् कल्पते यच्च यतियेोग्यम् ॥ २६२० ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१०४४॥
www.jainelibrary.org