SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥ १०४३॥ Jain Education Internat चतुष्कादियोगे व्यक्तिविवक्षायामेकदोषवृद्ध्या पश्चादयो दोषा वाच्याः ॥ इति गाथाचतुष्टयार्थः ।। २६१५ ।। नन्वेषां निह्नवानां दृष्टयः किं संसाराय, आहोस्विदपवर्गाय ? इत्याशङ्कानिवृत्त्यर्थमाह सत्या दिट्ठीओ जाइ-जरा-मरणगब्भव सहीणं । मूलं संसारस्स उ हवंति निग्गंथरुवेण ॥ २६१६ ॥ सप्तैता दृष्टयः सप्त निह्नवदर्शनानि, बोटिकास्तु पूर्वोक्तकारणाद् न विवक्षिताः, मूलं कारणं भवतीति संबन्धः । कासाम् ? इत्याह- जाति-जरा-मरण-गर्भवसतीनाम् । जातिर्नारकादिषु यत् प्रमृतिमात्रं तद्रूपा गृह्यते, गर्भवसतिस्तु पञ्चेन्द्रियतिर्यग्-मनुष्येषु गर्भावास इति न पौनरुक्त्यम् । तथा, संसरणं नारकादिषु पुनः पुनभ्रमणं संसारस्तस्य च मूलमेताः सप्त निवदृष्टयो निर्ग्रन्थरूपमात्रेण ।। इति निर्युक्तिगाथार्थः ॥ २६१६ ।। आह- एते निहवाः किं साधवः, उत तीर्थान्तरीयाः, आहोस्विद् गृहस्थाः । उच्यते न साधवः यस्मात् साधूनामेकस्यायर्थाय कृतमशनादि शेषाणामकल्प्यम्, नैवं निह्नवानाम् ; तथा चाह पेयणनिहूयाणं जं तेसिं कारियं जहिं जत्थ । भज्जं परिहरणाए मूले तह उत्तरगुणे य || २६१७ ॥ 'निहूय त्ति' देशीवचनमकिञ्चित्करार्थे, प्रवचने यथा भणितं क्रियाकलापं प्रत्यकिञ्चित्कराणां यदशनादि तेषां निह्नवानां कारितं यस्मिन् काले यस्मिन् क्षेत्रे, तद् भाज्यं विकल्पनीयम् । कया ? । परिहरणया वर्जनया । कदाचित् परिहियते वर्ज्यते, कदाचिद् नेति । यदि लोको न जानाति यथैते निह्नवाः साधुभ्यो भिन्नास्तदा परिहियते । अथ तु जानाति तदा न परिहियत इति । अथवा, परिहरणा परिभोगोऽभिधीयते, यत उक्तम्- “धारणया उवभोगो परिहरणा तस्स होइ परिभोगो" इति । ततश्च कदाचित् परिहियते परिभुज्यते, कदाचिद् न, इत्येवं परिहरणा । किं पुनरित्थं भाज्यम् ? इत्याह- मूले मूलगुणविषयमाधाकर्मादि, तथा उत्तरगुणे चोत्तरविषयं क्रीत- कृतादि । ततो नैते निह्नवाः साधवः, तदर्थाय कृतस्यैकान्तेनाकल्प्यत्वात् । नापि गृहस्थाः, न वा तीर्थावरीयाः, तदर्थाय कृतस्यासाधूनामेकान्तेन कल्प्यत्वात् । तस्मादव्यक्ता एवैते ।। इति नियुक्तिगाथार्थः ।। २६१७ ॥ १ संता दृष्टयो जाति-जरा-मरण-गर्भवसतीनाम् । मूलं संसारस्य तु भवन्ति निर्मन्थरूपेण ॥ २६१६ ॥ २ प्रवचनाकिञ्चिराणां यत् तेषां कारितं यदा यत्र भाज्यं परिहरणेन मूले तथोत्तरगुणे च ॥ २६१७ ॥ ३ धारणयोपभोगः परिहरणं तस्य भवति परिभोगः । For Personal and Private Use Only socoor बृहद्वृत्तिः । ॥१०४३। www.jainelibrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy