SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ 2885-90 तथा, अयमेव प्रादेशिकोऽव्यक्तवादिनं वदति, तत्र द्वौ दोषौ- सदोषस्वमताभ्युगपगमः, निर्दोषमदीयमतानभ्युपगमश्चेति । एवमव्यविशेषा० Prise प्रादेशिक व्यत्ययेन द्वौ दोषौ ददाति । एवं तावद् नेयं यावत् त्रैराशिकोऽवाद्धिकं वक्ति द्वौ दोषौ- सदोष स्वमताभ्युपगमः, निर्दोषमदीयमतानभ्युपगमचेति । एवमवद्धिकोऽपि त्रैराशिकं व्यत्ययेन द्वौ दोषौ ददातीति । एवं बहुरतादयोऽव्यक्तादिभिरपि सह द्विकयोगेन क्रमशवारणीयाः, सर्वत्र च द्विकयोगे यथोक्तदोषद्वयप्रदानं परस्परतो वक्तव्यम् । ॥१०४२॥ Jain Education Inter आह- नन्ववद्धिकः स्पृष्टावद्धं कर्म, परिमाणरहितं च प्रत्याख्यानमिति द्वौ पदार्थों नेच्छतीति प्रागुक्तम् । ततश्वासौ प्रतियोगिनो निवस्य त्रीन् दोषान् ददाति प्रतियोग्यप्यस्य त्रीनेव दोषान् प्रयच्छतीति प्राप्नोतिः तथाहि अवद्धिको बहुरतं वक्ति- तव यो दोषाः, एकं तावद् निर्दोषमपि मदभ्युपगतपदार्थद्वयं नेच्छसि, अपरं च स्वयं सदोषमपि स्वाभिमतं पदार्थ कल्पयसीति । एवं बहुरतोऽप्यद्धिकस्य व्यत्ययेन दोषत्रयं ददातीति । एवमवद्धिकेन सह प्रतियोगिनां विचारे सर्वत्र दोषत्रयं प्राप्नोति, तत् कथं 'एकैकस्य द्वौ द्वौ दोषी' इति व्याप्त्या प्रोच्यते । सत्यम्, यद्यवद्धिकस्य व्यक्तिविवक्षया पदार्थद्वयभेदेन भिन्नं मतं विवक्ष्यते, तदा यत् त्वं वदसि तत्तथैव मन्यामहे । यदा तु पदार्थद्वयभेदेन भिन्नमपि तस्य सामान्येनैकं मतमात्रं विवक्ष्यते तदा दर्शितन्यायेनैकैकस्य द्वौ द्वौ दोषाविति सर्वत्र न विरुध्यत इत्यलं विस्तरेणेति ।। २६१२ ।। २६१३ ।। २६१४ ॥ इदं चाद्धिकमाश्रित्य व्यक्तिविवक्षया दोषत्रयं भाष्यकृतोऽपि संगतम्, तथा चाह अब यस्स दोसे दिति तओ सो वि तिन्नि अन्नरस । तिप्पभिई तु समेया दोसे तिप्पभिइए दितिं ॥ २६१५॥ 'तर त्ति' व्यक्तिविवक्षारूपेण पूर्वदर्शितविधिना श्रीन् दोषानवद्धिकस्य बहुरतादयः प्रत्येकं ददति, सोऽप्यवद्धिकस्त्रीन् दोषानन्यस्य बहुरतादेः प्रत्येकं ददाति । तदेवं द्वयोः समुदितयोरेष विधिर्दर्शितः । यदा तु त्रिप्रभृतयः समुदिता भवन्ति तदा को विधि: ? इत्याह- 'तिपभिईत्यादि ' त्रिप्रभृतयस्तु समुदितास्त्रिप्रभृतीन् दोषान् ददति । इदमत्र हृदयम् - बहुरतादिषु त्रिषु समुदितेषु बहुरतः शेषान् वक्ति- ननु भवतस्त्रयो दोषाः कुत्सितनिजनिजपतप्ररूपणाकृतौ द्वौ निर्दोषमदीयमतविप्रतिपत्तिकृतस्त्वेक इति । एवं सर्वत्र त्रियोग उपयुज्य वक्तव्यम् । केवलमवद्धिकेन सह यस्त्रिकयोगस्तत्र व्यक्तिविवक्षायामेकदोषद्धेश्वत्वारो दोषा वक्तव्याः । तथा प्रभृतिग्रहणाच्चतुष्क- पञ्चक- पष्ठक- सप्तक योगेष्वपि यथासंख्यं चतुष्पञ्च-पद-सप्तदोषा उक्तानुसारतो भणनीयाः । केवलमबद्धिकेन सह १ अवद्विकस्य दोषान् ददति ततः सोऽपि श्रीनन्यस्य । त्रिप्रभृतयस्तु समेता दोषांविप्रभृतीन् ददति ॥ २६१५ ॥ For Personal and Private Use Only बृहद्वत्तिः । ॥१०४२॥ www.jainelibrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy