SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१०४१॥ Jain Education Inter 'मोत्तूण गोडमा हिलमन्नेसिं जावजीवसंवरणं । कम्मं च बद्धपुढं खीरोदवदत्तणा समयं ॥ २६१२ ॥ मोत्तुं जमालिमन्ने बेंति कडं कज्जमाणमेत्रं तु । एक्केक्को एक्केक्कं नेच्छइ अबडिओ दोन्नि ॥२६१३॥ अवरोप्परं समेया दो दोसे देतिं एक्कमेक्कस्स । परमयसंपडिवत्तिं विपडिवत्तिं च समयम्मि ॥ २६१४ ॥ व्याख्या - एतेषां मध्ये गोष्ठामाहिलं मुक्त्वा शेषाणां यावज्जीवं संवरणं यावज्जीवं प्रत्याख्यानं विधेयमित्यभ्युपगम इत्यर्थः । तथा, गोष्ठामाहिलादन्येषां कर्म च संमतम् । कथंभूतम् ? आत्मना समकं जीवेन सह वद्धस्पृष्टम् । किंवत् १ क्षीरोदकवदिति । गोष्ठामाहिलस्त्वेतद्वितयमपि न मन्यत इति । जमालिप्रभृतयस्तर्हि किं मन्यन्ते १, किंवा न मन्यन्ते ? इत्याह- 'मोतुं जमालिमित्यादि' जमालिं मुक्त्वाऽन्ये तिष्यगुप्तादयः क्रियमाणं कृतं मन्यन्ते, जमालिस्त्वेतद् न मन्यते, किन्तु कृतमेव कृतमभ्युपगच्छति । एवं तिष्यगुप्तं मुक्त्वा शेषाः परिपूर्ण जीवमिच्छन्ति तिष्यगुप्तस्तु चरममेव प्रदेशं जीवं मन्यत इत्याद्यग्रेतनेष्वपि सुधियाऽभ्यूह्य वाच्यम् । एवं 'तु ति' तुशब्दस्य चशब्दार्थत्वादेवं च सति किं सिद्धम् ? इत्याह- 'एक्केक्को इत्यादि' एकैको निह्नवः श्रीमज्जिनोक्तपदार्थानां मध्ये दर्शितन्यायेनैकैकं पदार्थ नेच्छति । अवद्धिकस्तु गोष्ठामाहिल: पूर्वदर्शितौ द्वौ पदार्थों नेच्छति, उक्तशेषांस्तु पदार्थान् सर्वानपीच्छतीति । ततः किम् ? इत्याह- 'अवरोप्परमित्यादि' एवं च सत्येकत्र समेता मिलिताः सर्वेऽपि निह्नवा विवदन्तः परस्परमेकैकस्य द्वौ द्वौ दोषौ ददति प्रयच्छन्ति । तत्र बहुरतादेः प्रादेशिकादि: परस्तस्य परस्य यद् मतं निजोऽभिप्रायस्तदभ्युपगमरूपा या संप्रतिपत्तिः सा परमतसंप्रतिपत्तिस्तां परस्परं दूषयन्ति तथा, बहुरतादेः स्वस्यात्मनो यद् मतं तत्र या तदनभ्युपगमरूपा परस्य प्रादेशिकादेर्विप्रतिपत्तिस्तां दूषयन्ति । एवं च सत्येकस्य द्वौ द्वौ दोषौ संबध्यते । अयमत्र भावार्थ:- बहुरतः प्रादेशिकं वक्ति, तत्र द्वौ दोषौ- एकं तावत् 'कृतमेव कृतम्' इति मदीयमतं निर्दोषमपि न मन्यसे, 'चरम एव प्रदेशो जीवः' इत्यात्मीयमतं तु सदोषमपि मन्यस इति । एवं प्रादेशिकोऽपि बहुरतस्य व्यत्ययेन द्वौ दोषौ ददाति । १३१ १ मुक्त्वा गोष्ठामा हिलमन्येषां यावज्जीवसंवरणम् । कर्म च बद्धस्पृष्टं क्षीरोदकवदात्मना समकम् ॥ २६१२ ॥ मुक्त्वा जमालिमन्ये ब्रुवन्ति कृतं क्रियमाणमेवं तु । एकैक एकैकं नेच्छत्यवद्धिको द्वौ ।। २६१३ ।। परस्परं समेता द्वौ दोषो ददति एकैकस्य । परमतसंप्रतिपत्तिं विप्रतिपत्तिं च स्वमते ।। २६१४ ।। For Personal and Private Use Only १५००० बृहद्वृत्तिः । ॥१०४१॥ www.jainbrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy