________________
विशेषा ० ॥१०४०॥
Jain Educatora Internati
चायमसिद्धो हेतुः' इत्यादिना विरचितं स्त्रीनिर्वाणविषयमपि वादस्थानकं तत्रैव षट्त्रिंशत्तमाध्ययने द्रष्टव्यम् ॥ इति षष्टिगाथार्थः ।। २६०६ ।। २६०७ || २६०८ ।। २६०९ ॥
॥ इति बोटिकाभिधानानामष्टमनिह्नवानां वादः परिसमाप्तः ॥
सांप्रतं निवक्तव्यतां निगमयन्नाह -
एवं एए भणिया उसप्पिणीए उ निण्हगा सत्त । वीरवरस्स पवयणे सेसाणं पवयणे नत्थि ॥ २६१० ॥ एवमुक्तेन प्रकारेणैतेऽनन्तरोक्ताः कथिताः प्रतिपादिता अवसर्पिण्यामेव निह्नवाः सप्त, अष्टमस्तु बोटिक श्वशब्दसमुच्चितादिकारणाद् न विवक्षितः । वीरवरस्य प्रवचने तीर्थे । शेषाणामर्हतां प्रवचने 'न स्थि त्ति' न सन्ति यद्वा नास्ति, 'निह्नवसत्ता' इति शेषः ॥
तत्र
मोत्तूर्णत्तो एक्कं साणं जावजीविया दिट्ठी । एक्केक्क्रस य एत्तो दो दो दोसा मुणेयव्वा ॥ २६११ ॥ मुक्त्वैषामेकं गोष्ठामाहिलं निह्नवाधमं शेषाणां जमालिप्रभृतीनां प्रत्याख्यानमङ्गीकृत्य यावज्जीविका दृष्टिः, नापरिमाणं प्रत्याख्यानं ते मन्यन्त इति भावना ।
आह- ननु पूर्वोक्तानुसारत एवेदमवसीयते, किमर्थमस्योपन्यासः १ इति । उच्यते- प्रत्यहमवश्यं करणीयत्वेन प्रत्याख्यान|स्योपयोगित्वाद् मा कश्चित् तथैव प्रतिपद्येत, ततो ज्ञाप्यते - निहृवानामपि प्रत्याख्याने यावज्जीविकैव दृष्टिः, अतो नापरिमाणं प्रत्याख्यानं विधेयमिति । 'एतो चि' अतोऽमीषां मध्य एकैकस्य निह्नवस्य द्वौ द्वौ दोषौ मुणितव्यौ ज्ञातव्यौ, सदोषस्यापि स्वमतस्याभ्युपगमः, परमतस्य पुनरनभ्युपगम इति । इह च भावार्थ भाष्यकार एव वक्ष्यति ।। इति निर्मुक्तिगाथाद्वयार्थः ॥ २६११ ॥
अथ भाष्यम्
१ एवमेते भणिता अवसर्पिण्यां तु निह्नवाः सप्त । वीरवरस्य प्रवचने शेषाणां प्रवचने न सन्ति ॥ २६१० ॥
२ मुक्त्वेत एकं शेषाणां यावज्जीविका दृष्टिः । एकैकस्य चैतस्माद् द्वौ द्वौ दोषो ज्ञातव्यौ ॥ २६११ ॥
For Personal and Private Use Only
बृहद्वत्तिः
॥१०४०/
www.jainelibrary.org