SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१०३७॥ Jain Educator Interna पेरिसुद्ध जुण्ण कुच्छिय थोवाऽनिययन्नभोगभोगेहिं । मुणओ मुच्छाराहिया संतेहिं अचेलया होंति ॥ २५९९ ॥ मुनयः साधवो मूर्च्छारहिताः सद्भिरपि चेलैरुपचारतोऽचेलका भवन्ति । कथंभूतैलैः ? इत्याह- 'परिसुद्ध ति' लुप्तविभक्तिदर्शनात् परिशुद्धैरेषणीयैः, तथा जीर्णैर्बहुदिवसैः कुत्सितैरसारैः स्तोकैर्गणनाप्रमाणतो हीनैस्तुच्छैर्वा 'अनिययन्नभोग भोगे हिं ति' अनियतमोगेन कादाचित्कासेवनेन भोगः परिभोगो येषां तानि तथा तैः । एवंभूतैवेलैः सद्भिरप्युपचारतोऽचेलका मुनयो भण्यते । तथा, 'अन्नभोगभोगेहिं ति' एवमपि योज्यते । ततश्च लोकरूढप्रकारान्यप्रकारेण भोग आसेवनम् प्रकारलक्षणस्य मध्यपदस्य लोपात, अन्यभोगस्तेनान्यभोगेन भोगः परिभोगो येषां तानि तथा तैरप्येवंभूतैवेलैरचेलकत्वं लोके प्रसिद्धमेव, यथा कटीवस्त्रेण वेष्टितशिरसो जलावगाढपुरुषस्य । साधोरपि कच्छाबन्धाभावात्, कूर्वराभ्यामग्रभाग एव चोलपट्टकस्य धरणात्, मस्तकस्योपरि प्रावरणाद्यभावाच्च लोकरूढप्रकारादन्यप्रकारेण चेलभोगो द्रष्टव्यः । तदेवं 'परिसुद्ध- जुण्ण-कुच्छिय' - इत्यादिविशेषणविशिष्टैः सद्भिरपि चेलैस्तथाविधवस्त्रकार्याकरणात् तेषु मूच्छीऽभावाच्च मुनयोऽचेलका व्यपदिश्यन्त इतीह तात्पर्यम् ।। २५९९ ।। आह- ननु चेलस्यान्यथा परिभोगेण किमचेलकत्वव्यपदेशः क्वापि दृष्टः ? इत्याशङ्कय तदुपदर्शनार्थमाह जेह जलमवगाहंतो बहुचेलो वि सिरवेहियकडिल्लो । भण्णइ नरो अचेलो तह मुणओ संतचेला वि ॥ २६०० ॥ गतार्था ।। २६०० ।। जीर्णादिभिरपि वस्त्रैरचेलकत्वं लोकरूढमेवेति भावयति— तैह थोव-जुन्न-कुच्छियचेलेहि वि भन्नए अचेलो ति । जह तर सालिय ! लहुं दो पोत्तिं नग्गिया मोति ॥ २६०१ ॥ इयमपि सुगमा, नवरं 'जह तरेत्यादि' दृष्टान्तः, यथेह कापि योषित् कटीवेष्टितजीर्णबहुच्छिदैकसाटिका कञ्चित् कोलिकं वदति, – 'त्वरस्व भोः शालिक ! शीघ्रो भूत्वा मदीयपोतीं शाटिकां निर्वाप्य ददस्व समर्पय, नग्निका वर्तेऽहम्' । तदिह सवस्त्रायामपि १ परिशुद्धः कुत्सितैः स्तोकेर नियतभोगभोगैः । मुनयो मूच्छांरहिताः सद्भिरचेलका भवन्ति ।। २५९९ ॥ २ यथा जलमवगाहमानो बहुचेलोऽपि शिरोवेष्टितकटिकः । भण्यते नरोऽवेलस्तथा मुनयः सचेला अपि ॥ २६०० ।। ३ तथा स्तोक- जीर्ण-कुसितव खैरपि भव्यतेऽचेल इति । यथा स्वरस्य शालिक ! लघु ददस्य शादिकां नग्निकाहमिति ॥ २६०१ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥१०३७॥ www.jainelibrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy