________________
विशेषा०
॥१०३६॥
Jain Education Inter
'जईत्यादि' यदि चेलभोगमात्रादपि तेन साधुनाऽऽचेलक्यपरीषो न जित इति त्वया प्रोच्यते, तर्हि भक्तादिपरिभोगमात्रादजितदिगिछादिपषोऽपि त्वदभिप्रायेणैष साधुः स्यात् । एतदुक्तं भवति इह देशीवचनत्वाद् दिगिच्छाशब्देन क्षुत् प्रोच्यते, आदिशब्दात् पिपासादिपरिग्रहः । ततश्च यद्येषणीयादिगुणोपेतवस्त्र पात्रपरिभोगाज्जिताचेलपरीषहो नेष्यते, तोपणादिगुणसंपन्नभक्तपानादिपरिभोगाज्जितक्षुत्-पिपासादिपरीषहोऽपि न कश्चिज्जगति स्यात् । भवत्वेवम्, न किञ्चिद् नः क्षूयत इति चेत् । अत्राह'एवमित्यादि' एवं सति त्वदभिप्रायेण जिनेन्द्रा अपि भगवन्तो निरुपमधृतिसंहननाः सस्वैकनिधयो न जितपरीपहा इति सर्वप्रकारैरापन्नम् । अर्धोद्गमादिदोषविप्रमुक्तं विशुद्धमेषणीयं राग-द्वेषरहितो भक्त पानादिकं सेवमानोऽपि जितक्षुत्-पिपासादिपरीषहो मुनिर्भवति, तर्हि योऽयं भक्तादिषु विधिरुच्यते स चेलेsपि वस्त्रेऽपि भण्यमानः किं नष्टः कापि १- ननु तदप्येषणीयं रागादिदोषरहितः परिभुञ्जानो जिताचेलपरीषहो मुनिः स्यादेवेति भावः । एतदेव व्यक्तीकुर्वन्नाह - 'जह -' इत्यादि गाथाद्वयं स्पृष्टम् । नवरं 'पडियारो वित्त' बुभुक्षा- पिपासा - शीतोष्णादीनां भक्त-पान-वस्त्रादिभिः सूत्रोक्तयतनया कृतः प्रतीकारः प्रतिविधानं येन स तथा । इदं च डमरुकमणिन्यायेन गाथाद्वयेऽपि संबध्यते । तस्मादनेषणीयादिदोषदुष्टवस्त्र परिभोगेणैवाजिताचेल परीषहत्वं भवति, न तु सूत्रविधिना तदुपभुञ्जत इति ।। २५९४ ।। २५९५ ।। २५९६ ।। २५९७ ।।
आह - ननु यदि वस्त्रं परिभुक्ते साधुः तर्हि तस्य कथमचेलपरीषदसहिष्णुत्वम्, चेलासच्च एव तदुपपत्तेः १। तदयुक्तम्, सति, असति च चेलेऽचेलकत्वस्यागमे लोके च रूढकत्वात् ; एतदेवाह---
सदसंतचलगोऽचलगो य जं लोग समयसंसिद्धो । तेणाचेला मुणओ संतेहिं, जिणा असंतेहिं ॥ २५९८ ॥
सच्चासच्च सदसती चेले यस्यासौ सदसच्चलो यद् यस्माल्लोके समये चालकः संसिद्धः प्रसिद्धः । चशब्दः प्रस्तावनायाम् । सा च कृतैव । तेन तस्मादिह मुनयः सामान्यसाधवः सद्भिरेव चेलैरुपचारतोऽचेला भण्यन्ते, जिनास्तु तीर्थकरा असद्भिवेलैर्मुख्यवृत्त्याऽचेला व्यपदिश्यन्ते । इदमुक्तं भवति- इहाचेलत्वं द्विविधम्- मुख्यम्, उपचरितं च । तत्रेदानीं मुख्यमचेलत्वं संयमोपकारि न भवति, अत औपचारिकं गृह्यते, मुख्यं तु जिनानामेवासीदिति ।। २५९८ ।।
इदमेवौपचारिकमचलत्वं भावयति
१ सदसश्चेलकोऽचेलकश्च यलोक - समयसंसिद्धः । तेनाचेला मुनयः सद्भिः, जिना असद्भिः ॥ २५९८ ॥
For Personal and Private Use Only
acccca
बृहद्वृत्तिः ।
||१०३६ ।।
www.jainelibrary.org