SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥१०३५॥ पकल्पानां भवादृशां जिनकल्पस्तीर्थकरैरनुज्ञात इति । तत् तस्माद् यदि जिनवचनादर्हदुपदेशाजिनकल्पं प्रतिपद्यसे त्वम् , ततस्तहि 'स जिनकल्पो व्यवच्छिन्नः' इतीदमपि प्रतिपद्यस्व । अथैतद् न प्रतिपद्यसे, तर्हि 'जिनकल्पोऽस्ति' इति कथं तीर्थकरवचनं तव प्रमाणम् । कथं च 'व्यवच्छिन्नोऽसौ' इति न प्रमाणम् । नन्वाग्रहपिशाचिकाग्रस्तचेष्टितमिदम् , स्वेच्छामात्रप्रवृत्तत्वादिति ॥ २५९१ ॥ २५९२ ॥ ___ अथ जिनकल्पास्तित्वमागमे प्रतीतम् , तद्वयवच्छेदस्तु केन वचनेन तीर्थकररुतः ? इति चेत् । इत्याहमण-परमोहि-पुलाए आहारग-खवग-उवसमे कप्पे । संजमतिय-केवलि-सिज्झणा य जंबुम्मि वुच्छिण्णा ॥२५९३॥ मनःपर्यायज्ञानम् , परमावधिः, पुलाकलब्धिः, आहारकशरीरम् , क्षपकश्रेणिः, उपशमश्रेणिः, जिनकल्पः, परिहारविशुद्धिकसूक्ष्मसंपराय-यथाख्यातलक्षणं संयमत्रिकम् , केवली, मोक्षगमनलक्षणा सिद्धिश्चति सर्वेऽप्येते पदार्था जम्बूस्वामिनि व्यवच्छिन्ना जम्बूस्वामिनं यावत् प्रवृत्ताः, न तूत्तरत्रेति ॥ २५९३ ॥ यच्चोक्तम् 'जं च जियाचेलपरिसहो मुणी' इत्यादि, तत्राह जइ चेलभोगमेत्तादजिआचेलयपरीसहो तेण । अजियदिगिंछाइपरीसहो वि भत्ताइभोगाओ ॥ २५९४ ॥ एवं तुह न जियपरीसहा जिणिंदा वि सव्वहावन्नं । अहवा जो भत्ताइसु स विही चेले वि किं नेहो ?॥२५९५॥ जह भत्ताइ विसुद्धं राग-दोसरहिओ निसेवतो । विजियदिगिंछाइपरीसहो मुणी सपडियारो वि ॥२५९६॥ तह चेलं परिसुद्धं राग-दोसरहिओ सुयविहीए । होइ जियाचेलपरीसहो मुणी सेवमाणो वि ॥ २५९७ ॥ व्याख्या- जिताचेलपरीषहो मुनिर्भवतीति वयमपि मन्यामहे । केवलमिदं प्रष्टव्योऽसि- किं चेलभोगमात्रेणाप्यजिताचेलपरीपहत्वं भवति येन भवता सर्वथा वस्त्रपरित्यागः क्रियते, आहोस्विदनेपणीयादिदोषदुष्टवस्त्रपरिभोगेण ? । तत्राद्यपक्षे दुषणमाह । मनः-परमावधि-पुलाका आहारक-क्षपको-पशमाः कल्पः । संयमत्रिक-केवलि-सिद्धयश्च जम्बो व्युच्छिन्नाः ॥ २५९३ ॥ २ गाथा २५५६ । यदि चेलभौगमानादजितालकपरीपहस्तेन । अजितक्षदादिपरीपहोऽपि भक्तादिभौगात् ॥ २५९४ ॥ एवं तव न जितपरीषहा जिनेन्द्रा अपि सर्वधापनम् । अथवा यो भक्तादिषु स विधिश्चेलेऽपि किं नेष्टः १ ॥ २५९५ ।। यथा भक्तादि विशुद्ध राग द्वेषरहितो निषेवमाणः । विजितक्षदादिपरीषहो मुनिः सप्रर्ताकारोऽपि ॥ २५९६ ॥ तथा चेलं परिशुद्ध राग-द्वेषरहितः श्रुतविधिना । भवति जिताचेलपरीषहो मुनिः सेवमानोऽपि ॥ २५९७ ।। SSSSSSSSSCRIBE For Personal and Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy