________________
विशेषा०
॥१०३३।
Jain Educationa International
मतिक्रम्य प्रवर्तमानः शिष्योऽभीष्टार्थसाधको भवति । परमगुरूपदेशश्चैवं वर्तते निरुपमधृतिसंहननाद्यतिशयरहितेनाचेलकेन नैव भवितव्यम् । तत् किं त्वमित्थं गुरूपदेशबाह्येन नाग्न्येनात्मानं विगोपयसीति ।। २५८५ ।।
अथ यथा गुरोरुपदेशः कर्तव्यस्तथा तद्वेष-चरिते अप्यवश्यमाचरणीये । तदयुक्तम्, तदुपदेशानुष्ठानस्यैव कार्यसाधकत्वादिति दर्शयति
'रोगी जोari करेइ वेज्जस्स होअरोगो य । न उ वेसं चरियं वा करेइ न य पउणइ करतो ॥ २५८६ ॥ तह जिवेज्जासंकुणमाणोऽवेइ कम्मरोगाओ । न उ तन्नेवत्थधरो तेसिमाएसमकरंतो ॥ २५८७ ॥ व्याख्या - इह यथा रोगी वैद्यस्योपदेशं करोति, तत्करणमात्रेणैव च रोगाद् विमुच्यते, न पुनरसौ तद्वेषं करोति, नापि तच्चरितमाचरति, न च तत् कुर्वाणोऽप्यसौ प्रगुणीभवति, प्रत्युत क्षपणकादौ वैद्ये नाग्न्यादिकं तद्वेषं कुर्वन् सर्वरसांश्च स्वेच्छया तद्वद् भुञ्जानस्तच्चरितानुष्ठायी संनिपातस्यैव भ्रियते । तस्माद् वैद्योपदेशानुष्ठानमेव रोगिणो रोगापगमहेतुः । प्रस्तुतयोजनामाह - 'तहेत्यादि' तथा तेनैव प्रकारेण जिनवैद्यस्यादेशं कुर्वाणस्तद्वेष-चरिते अनाचरन्नपि कर्मरोगादपैति वियुज्यते, न पुनस्तेषामादेशमकुर्वाणस्तन्नेपथ्य-चरिते विभ्राणोऽपि तस्माद् वियुज्यते, केवलं तद्योग्यतारहितत्वात्तन्नेपथ्य-चरिताभ्यां भवर्तमान उन्मादादिभाजनमेव भवतीति ।। २५८६ ।।२५८७|| किञ्च, यदि तीर्थकरवेष-चरितानुष्ठानवर्ती भवान्, तर्हि किं सर्वथा तैः सह वेष-चरिताभ्यां साधर्म्य भवतः, उत देशत: ? । यद्याद्यः पक्षः, तर्हि यत् ते कुर्वन्ति, तत् सर्वमपि भवता कर्तव्यं प्राप्नोतिः किं पुनस्तत् १ इत्याह
ने परोवएसवस्या न य छउमत्था परोवएस पि । दिति, न य सीसवग्गं दिक्खंति जिणा जहा सव्वे ॥ २५८८ ॥ तह सेसेहि वि सव्वं कज्जं जइ तेहिं सव्वसाहम्मं । एवं च कओ तित्थं न चेदचेलो त्ति को गाहो ? || २५८९ ॥ व्याख्या– यदि तैर्जिनैस्तीर्थकरैः सह लिङ्ग-चरिताभ्यां सर्वसाधर्म्यम्, तर्हि यथा ते स्वयंबुद्धत्वाद् न परोपदेशवशगाः- न
१३०
१ रोगी यथोपदेशं करोति वैद्यस्य भवत्यरोगश्च । न तु वेषं चरितं वा करोति न च प्रकरोति कुर्वन् ॥ २५८६ ॥ तथा जिनवैद्यादेशं कुर्वाणोऽवैति कर्मरोगात् । न तु तन्नेपथ्यधरस्तेषामादेशमकुर्वन् ॥ २५८७ ॥
२ न परोपदेशवशगा न च च्छद्मस्थाः परोपदेशमपि । ददति न च शिष्यवर्गं दीक्षन्ते जिना यथा सर्वे ॥ ९९७ ॥ तथा शेषैरपि सर्व कार्ये यदि तैः सर्वसाधर्म्यम् । एवं च कुतस्तीर्थं न चेदचेल इति को महः ? ॥ २५८९ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१०३३॥
www.janbrary.org