SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥१०३२॥ OOO यदि ते वस्त्रादेर्ग्रहणं न कुर्वन्तीत्युच्यते, तर्हि "सचे वि एगदसण निग्गया" इत्यादि विरुध्यत इत्याशङ्कयाह- 'तह वीत्यादि' यद्यपि तत्संयमस्यानुपकारि वस्त्रम् , तथापि सवस्त्रमेव तीर्थ 'सवस्त्रा एव साधवस्तीर्थे चिरं भविष्यन्ति' इत्यस्यार्थस्योपदेशनं ज्ञापन तदर्थ गृहीतैकवस्त्राः सर्वेऽपि तीर्थकृतोऽभिनिष्क्रामन्तीति । तस्मिंश्च वस्त्रे च्युते कापि पतितेऽचेलका वस्त्ररहितास्ते भवन्ति, न पुनः सर्वदा । ततः 'अचेलकाश्च जिनेन्द्राः' इत्यैकान्तिकं यदुक्तं तद् भवतोऽनभिज्ञत्वमूचकमेवेति भावः ॥२५८१ ॥२९८२ ॥ २५८३ ॥ जिनकल्पिकादयस्तु सदैव सचेलका इति दर्शयन्नाह जिणकप्पियादओ पुण सोवहओ सव्वकालमेगंतो । उवगरणमाणमेसिं पुरिसाविक्खाए बहुभेयं ॥२५८४॥ अयमत्राभिप्रायः- तीर्थकरदृष्टान्तावष्टम्भेन, जिनकल्पिकोदाहरणावष्टम्भेन च त्वमचेलकत्वं प्रतिपद्यसे । एतच्च सर्व भवतो दुर्बोधविलसितमेव, यतस्तीर्थकरा अपि पूर्वोक्तन्यायेन न तावदेकान्ततोऽचे लकाः । जिनकल्पिक-स्वयंबुद्धादयः पुनः सर्वकालमेकान्तेन सोपधय एवेति । अत एव "दुग तिग चउक्क पणगं" इत्यादिना पूर्वमेतेषामुपकरणमानं पुरुषापेक्षया बहुभेदमुक्तम् , न पुनः सर्वथा निरुपकरणता । तदयं यस्त्वया सर्वथोपकरणत्यागः कृतः स दृष्टान्तीकृतानां तीर्थकर-जिनकल्पिकादीनामपि न दृश्यते, केवल नूतनः कोऽपि त्वदीय एवायं मार्ग इति ॥ २५८४ ॥ अथ प्रकारान्तरेण परमतमाशङ्कय परिहरनाह अरहंता जमचेला तेणाचेलत्तणं जइ मयं ते । तो तव्वयणाउ च्चिय निरतिसओ होहि माऽचेलो ॥२५८५॥ यद् यस्मादर्हन्तोऽचेलाचलरहिता नाग्न्यधारिणस्तेन तस्मात् कारणादचेलत्वं नग्नत्वं यदि तब मतं संमतम् , ___“जारिसयं गुरुलिंगं सीसेण वि तारिसेण होयव्वं । न हि होइ बुद्धसीसो सेयवडो नग्गखवणो वा ॥ १ ॥" इति वचनादिति । ततस्तर्हि तद्वचनादेव तीर्थकरोपदेशादेव निरुपमधृति-संहननाद्यतिशयरहितोऽचेलो नग्नो मा भूस्त्वम् । इदमुक्तं भवति- यदि तीर्थकरशिष्यत्वात् तद्वेषस्तव प्रमाणम् , तर्हि तत एव हेतोस्तदुपदेशोऽपि भवतः प्रमाणमेव । न हि गुरूपदेश१ पृ० १०२२ । २ जिनकल्पिकादयः पुनः सोपधयः सर्वकालमेकान्तः । उपकरणमानमेषां पुरुषापेक्षया बहुभेदम् ॥ २५८४ ॥ ३ पृ० १०२९ । ४ अर्हन्तो यदचेलास्तेनाचेलत्वं यदि मतं ते । ततस्तद्वचनादेव निरतिशयो भूमाऽचेलः ॥ २५८५॥ ५ यादृशं गुरुलिङ्गं शिष्येणापि तादृशेन भवितव्यम् । न हि भवति बुद्धशिष्यः श्वेतपटो नग्नक्षपणो वा ॥१॥ |१०३२॥ Jan Education inte For Personal and Price Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy