SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ बृहद्वत्तिः । विशेषा. ॥१०३१॥ आयरिए य गिलाणे पाहुणए दुल्लहे सहसदाणे । संसत्तभत्तपाणे मत्तगपरिभोगणुण्णा उ ॥ ३ ॥ इति ।। २५७५ ॥ २५७६ ॥ २५७७ ॥ २५७८ ।। २५७१ ॥ यदुक्तम् 'सुए भणियमपरिग्गहत्तं' इति, तत्राह अपरिग्गहया सुत्ते त्ति जा य मुच्छा परिग्गहोऽभिमओ। सव्वदव्वेसु नसा कायवा सुत्तसब्भावो॥२५८०॥ या च "सव्वाओ परिग्गहाओ वेरमण" इत्यादिनाऽपरिग्रहता सूत्रे प्रोक्तेति त्वया गीयते, तत्रापि मृच्छैच परिग्रहस्तीर्थकृतामभिमतो नान्यः, सा च मूर्छा यथा वस्त्रे तथा सर्वेष्वपि शरीरा-ऽऽहारादिषु द्रव्येषु न कर्तव्येति सूत्रसद्भावः सूत्रपरमार्थः, न पुनस्त्वदभिमतः सर्वथा वस्त्रपरित्यागोऽपरिग्रहतेति सूत्राभिप्रायः । तस्मादपरिज्ञातमूत्रभावार्थो मिथ्यैव खिद्यसे त्वमिति हृदयम् ॥ २५८० ॥ यच्चोक्तम्- 'जमचेला य जिणिंदा' इति, तत्पतिविधातुमाह"निरुपमधिइसंघयणा चउनाणाइसयसत्तसंपण्णा । अच्छिद्दपाणिपत्ता जिणा जियपरिसहा सव्वे ॥२५८१॥ तम्हा जहुत्तदोसे पावंति न वत्थ-पत्तरहिया वि । तदसाहणं ति तेंसि तो तग्गहणं न कुव्वति ॥२५८२॥ तहवि गहिएगवत्था सवत्थतित्थोवएसणत्थं ति । अभिनिक्खमंति सव्वे तम्मि चुएऽचेलया हंति ॥२५८३॥ व्याख्या- यस्माज्जिनास्तीर्थकराः सर्वेऽपि निरुपमधृतिसंहननाश्छद्मस्थावस्थायां चतुर्ज्ञानाः, अतिशयसत्त्वसंपन्नाः, तथाऽच्छिद्रः पाणिरेव पात्रं येषां तेऽच्छिद्रपाणिपात्रा जितसमस्तपरिषहाश्च, 'तम्ह त्ति तस्माद् वस्त्राभावे ये संयमविराधनादयो दोषाः प्रोक्तास्तान् यथोक्तान् दोषांस्ते वस्त्र-पात्ररहिता अपि न प्राप्नुवन्ति, इत्यतस्तद्वस्त्रादिकं न साधनं न साधकं संयमस्य तेषां तीर्थकराणाम् । 'तो ति' तस्मादकिञ्चित्करत्वात् तस्यात्मगतसंयमस्यानुपकारिणो वस्त्रादेओहणं न कुर्वन्ति तीर्थकरा इति । ननु सापक , आचार्य च ग्लाने प्रापूर्णके दुर्लभे सहसादाने । संसक्तभक्तपाने मात्रकपरिभोगानुज्ञा तु ॥३॥ २ गाथा २५५६।३ अपरिग्रहता सूत्रे इति या च मूर्छा परिग्रहोऽभिमतः । सर्वगव्येषु न सा कर्तव्या सूत्रसद्भावः ॥२५८०॥ ५ सर्वस्मात् परिग्रहाद् विरमणम् । ५ निरुपमतिसंहननाश्चतुज्ञांना अतिशयसत्त्वसंपन्नाः । अच्छिद्रपाणिपात्रा जिना जितपरीषहाः सर्वे ॥ २५८१ ॥ तस्माद् यथोक्तदोषान् प्राप्नुवन्ति न वस्त्र-पावरहिता अपि । तदसाधनमिति तेषां ततस्तद्ग्रहणं न कुर्वन्ति ॥ २५८३ ॥ तथापि गृहीतकवस्त्राः सवलतीर्थोपदेशनार्थमिति । अभिनिष्कामन्ति सर्वे तस्मिश्च्युतेऽचेलका भवन्ति ॥ २५८३ ।। FOSS
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy