SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Keera विशेषा. वृहद्वत्तिः । ॥१०३०॥ PAPILPAPARMARATHIARRIAREASSARHPERIATRRNRARE स्वासमतानुमानमारमाध्यम 'धेउव्वेऽवायडे वाइए हीखद्दे पजणणे चेव । तसिं अणुग्गहट्टा लिंगुदयट्ठा य पट्टो ओ ॥ ५॥" तत्र प्रजनने मेहने 'वेउब्धि त्ति' वैक्रिये विकृते; तथा, अप्राकृतेऽनावृते, वातिके चोत्सूनत्वभाजने, हिया लज्जया सत्या खड्डे बृहत्पमाणे 'लिंगुदयह त्ति' स्त्रीदर्शने लिङ्गोदयरक्षणार्थं च पटश्चोलपट्टो मत इति । अथ पात्रस्य मात्रकस्य च संयमोपकारित्वं दर्शयन्नाह-'संसत्तेत्यादि । संसक्तसक्तु-गोरस-द्राक्षादिपानक-पानीयगतसत्त्वप्राणरक्षणार्थं पात्रमिति संबन्धः । पात्राभावे हि संसक्तगोरसादयो हस्त एवानाभोगादिकारणाद् गृहीताः क क्रियेरन् ?, तद्गतसत्त्वानां प्राणविपत्तिरेव स्यात् । पात्रे तु सति समयोक्तविधिना ते परिस्थाप्यन्ते । तथा च सति तद्गतसत्त्वप्राणरक्षा पात्रेण सिध्यतीति । तथा पात्राभावे पाणिपुट एव गृहीतानां घृतगोरसादिरसानां परिगलने सति यत् कुन्थु-कीटकादिप्राणघातनम् , ये च भाजन-धावनादिभिः पश्चात्कर्मादयो दोषास्तेषां परिहारार्थं च पात्रमिष्यते जगद्गुरुभिः। तथा, ग्लान-बाल-दुर्बल-वृद्धाद्युपग्रहार्थं च तदिन्यते । पात्रे हि सति गृहस्थेभ्यः पथ्यादिकं समानीय ग्लान-बालादीनामुपग्रह उपष्टम्भः क्रियते, तदभावे पुनरसौ न स्यादेवेति । अपरञ्च, पात्रे सति भक्तपानादिकं समानीयान्यस्य प्रयच्छतां साधूनां दानमयधर्मस्य साधनं सिद्धिर्भवति, पात्राभावे चैतद् न स्यात् । तदसत्त्वे कस्यापि केनचिद् भक्त-पानादिदानासंभवात् । 'समया चेवं परुष्परउ त्ति एवं च पात्रे परिग्रहे सति लब्धिमतामलब्धिमतां च, शक्तानामशक्तानां च, वास्तव्यानां प्राघूर्णकानां च सर्वेषामपि साधूनां परस्परं समता स्वास्थ्यं तुल्यता भवति । पात्रे हि सति लब्धिमान् भक्त-पानादिकं समानीयालब्धिमते ददाति । एवं शक्तोऽशक्ताय, वास्तव्यः प्राघूर्णकाय तत् प्रयच्छति । इति सर्वेषां सौस्थ्यम् , पात्राभावे तु नैतत् स्यादिति । इह च पात्रग्रहणस्य गुणकथनेन मात्रकस्यापि तत्कथनं कृतमेव द्रष्टव्यम् , प्रायः समानगुणत्वात् । उक्तं च"छक्कायरक्खणट्ठा पायग्गहणं जिणेहिं पन्नत्तं । जे य गुणा संभोए हवंति ते पायगहणे वि ॥ १ ॥ अतरंत-बाल-वुढा-सेहाएसा गुरू अ सहुवग्गा । साहारणुग्गहा अलद्धिकारणा पायगहणं तु ॥ २ ॥ , वैक्रियेऽप्रावृते वातिके ह्रिया बृहति प्रजनने चैव । तेषामनुग्रहार्थो लिङ्गोदयार्थश्च पट्टस्तु ॥ ५ ॥ २ षट्कायरक्षणार्थं पात्रग्रहणं जिनैः प्रज्ञप्तम् । ये च गुणाः संभोगे भवन्ति ते पात्रग्रहणेऽपि ॥ १॥ अशक्त-बाल-वृद्ध-शैक्षादेशाद् गुरोश्च साधुवर्गात् । साधारणोद्ग्रहाबलब्धिकारणात् पात्रग्रहणं तु ॥ २ ॥ १०३०॥ Jain Educationa.Inte For Personal and Price Use Only www.jaineibrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy