________________
बृहद्वत्तिः ।
विशेषा० ॥१०१८॥
PLEARSAPPOINOPIERRORREARRANATARATALABIBER
ARCHETTITYTTURA
यघनन्तरपक्षः, तर्हि भग्नं तस्य प्रत्याख्यानम् , सुरलोकादौ भोगसेवनादवश्यंभावी तद्भङ्ग इत्यर्थः। अथाद्यः पक्षः, तर्हि वचनेनापि 'यावज्जीवम्' इति परिमाणं प्रगुणेन न्यायेन किं न निर्दिश्यते- किं न क्रियते, येनान्यच्चेतस्यन्यत्तु वचनेनोच्यते ? इति ।। २५४३ ॥
अथ भावोऽन्यथा, वचनं त्वन्यथा मोच्यते; तर्हि मायैव केवलमिति दर्शयन्नाह
जैइ अन्नहेव भावो चेयओ वयणमन्नहा माया । किं वाऽभिहिए दोसो भावाओ किं वओ गुरुयं ? ॥२५४४॥
हन्त ! यद्यन्यथैव यावज्जीवावधिक एव चेतसि भावः प्रत्याख्यानपरिणामः, अन्यथैव च यावज्जीवावधिपरिणामरहितमेव वचनम् , तर्खेतच्चतयतो जानतः केवलैब माया निश्चीयते नान्यत् फलं दृश्यते, अन्यथा विचिन्त्यान्यथा भाषणादिति । अथवा, | प्रष्टव्योऽसि त्वम्- किं भावे तथास्थितेऽपि 'यावज्जीवाए' इत्यभिहिते दोषः कश्चिद् वीक्ष्यते भवता, येन वचनेनापि नेदमभिधीयते । यदिवा, किं भावात् सकाशाद् 'वउ त्ति' वचनं गुरुकं प्रधानं पश्यसि त्वं, येन भावेऽन्यथास्थितेऽपि वचनमन्यथाऽभिदधासि । एतच्चायुक्तम् , आगमे भावस्यैव प्रामाण्येन, वचनस्य त्वप्रामाण्यनाभिधानादिति ॥ २५४४ ॥
कः पुनरयमागमः ? इत्याह__ अन्नत्थ निवडिएवंजणम्मि जो खलु मणोगओ भावो । तं खलु पच्चक्खाणं, न पमाणं वंजणं छलणा ॥२५४५॥
इह केनापि त्रिविधाहारादिप्रत्याख्यानं कर्तुमध्यवसितम् , अधिकतरसंयमकरणाक्षिप्तचेतसा पुनः 'चतुर्विधमाहारं प्रत्याख्यामि' इत्यादि व्यञ्जनं शब्द उच्चरितः। एवं च मानसभावाननुवृत्त्या व्यञ्जने शब्देऽन्यत्र निपतितेऽन्यविषये समुच्चारिते यः खलु प्रत्याख्यानविषयानेकसूक्ष्मविवक्षातिकान्तः स्पष्टः प्रत्याख्यातुर्मनोगतो भावस्तदेव प्रत्याख्यानं प्रमाणं- स एव प्रत्याख्यातृविवक्षित| प्रत्याख्यानविषयो मनोगतो भावः प्रमाणम् , न तु व्यञ्जनं शब्द इत्यर्थः। कुतो न व्यञ्जनं प्रमाणम् ? । यतश्छलना छलमात्रं तद् व्यञ्जनमतोऽप्रमाणम् , भावाननुरोधेन प्रवृत्तत्वात् । तदेवमागमेऽपि वचनस्याप्रामाण्येनोक्तत्वाद् यदि यावज्जीवावधिको मनसो भावस्त्वयेष्यते तदा वचनेनापि 'यावज्जीवम्' इत्युच्चार्यताम् , किं मिथ्याग्रहेण ? इति ॥ २५४५ ॥ एवं युक्तिभिः प्रज्ञापितोऽपि यावदसौ न किश्चित् प्रतिपद्यते, ततः किं तत्र संजातम् ? इत्याह--
१ यद्यन्यथैव भावश्चेतयतो वचनमन्यथा माया । किं वाऽभिहिते दोषो भावात् किं वचो गुरुकम् ॥ २५४४ ।। २ अन्यत्र निपतिते व्यानं यः खलु मनोगतो भावः । तत् खल प्रत्याख्यानं, न प्रमाणं व्यञ्जनं छलना ॥ २५४५ ॥
।
॥१०१८॥
सारस्वटर
Jain Educationa.Inten
For Personal and Price Use Only