________________
विशेषा.
Aru
।।१०१७॥
यावज्जीवावधिना प्रत्याख्यानं कुर्वतः 'मरणानन्तरमहं भोगान् सेविष्ये' इत्येवंभूता हन्त ! न कचिदाशंसा वर्तते- नैर्वभूतेन परिणामेन सावधिकं प्रत्याख्यानं करोतीत्यर्थः, किन्तु 'मा मे मृतस्य-'सुरेख़्त्पन्नस्य सतो भोगानासेवमानस्य व्रतभङ्गो भविष्यति' इत्यध्यवसायेन मा मे व्रतभङ्गस्तत्र भूयात्' इत्येवंभूतेनैव शुभपरिणामेनेत्थंभूतं प्रत्याख्यानं करोतीत्यर्थः । अतस्तत्र काऽऽशंसा ? | स हि विरत्यावारककर्मणः क्षयोपशपावस्थत्वादत्र स्वायत्तः, सुरलोके त्ववश्यं तदुदयात् परायत्त इत्यतः शक्यत्वाद् याव जीवावधिना प्रत्याख्याति, परतस्त्वशक्यत्वाद् न प्रत्याख्याति, इति कथमाशंसादोषवानयम् ? इति । अथैवं ब्रूयास्त्वम्- किमितीत्थं व्रतभङ्गाद् विभेत्यसौ । अयं हि मृतो मुक्तिं यास्यति, तत्र च कामभोगाभावाद् व्रतभङ्गासंभव एव, इति कस्तस्य व्रतभङ्गसंक्षोभः । तदयुक्तम् , सांप्रतमिह मुक्तिगमनासंभवात् , महाविदेहेष्वपि सर्वस्यापि तद्गमननिश्चयायोगादिति । अथ कोऽपि तावद् मुक्तिं गच्छति, तस्य च विमुक्तस्य मदभिमतेऽपरिमाणे प्रत्याख्याने गृह्यमाणे मुक्तावपि महाव्रतानुगमादपरिमाणप्रत्याख्यानस्य सफलता भविष्यतीति चेदित्यत्राह'को वा वयेत्यादि' योऽपि मुक्तिं गच्छति तस्यापि विमुक्तस्य निष्ठितार्थस्य को बतानामवकाशः? किं बतानां साफल्यम् ?- तत्कार्यस्य सिद्धत्वाद् न किश्चिदिति भावः । तस्माद् मुक्तिगामिनमपि प्रत्यसंगतमेवापरिमाणप्रत्याख्यानमिति । तदेवं मुग्धमभिज्ञ वा व्यक्त्याऽनपेक्ष्य सामान्येनैवापरिमाणप्रत्याख्याने दूपणान्युक्तानि ॥२५४१ ॥
अथ निर्धार्य किश्चिदभिझं प्रति दूपणमाह
जो पुणरव्ययभावं मुणमाणोऽवस्सभाविन भणइ । वयमपरिमाणमेवं पञ्चक्खं सो मुसाबाई ॥ २५४२ ॥
यः पुनरग्रेऽपि किश्चित् शास्त्रपरिकर्मितमतिर्विज्ञो व्रतं गृह्णाति, विज्ञत्वादेव च 'चीर्णव्रतः सुरलोकमेव गच्छति' इत्यवबुध्यमानः सुरेषु चावतभावमविरतिभावमवश्यंभाविनं मुणन् जानानोऽपि व्रतं प्रत्याख्यानमपरिमाणं यावज्जीवपरिमाणरहितं भणत्युच्चरति, स एवं ब्रुवाणः प्रत्यक्षं साक्षादेव मृषावादी, अन्यथा भणित्वाऽन्यथा करणादिति ।। २५४२ ॥
अपि च,
भोवो पच्चक्खाणं सोजइ मरणपरओ वि तो भग्गं । अह नत्थिन निहिस्सइ जावज्जीवं ति तो कीस? ॥२५४३॥ भावंश्चैतसिको विरतिपरिणामः प्रत्याख्यानमुच्यते, सच प्रत्याख्यातुर्यावज्जीवावधिमेवास्ति, उत मरणपरतोऽपीति वक्तव्यम् ।
१ यः पुनरवतभावं जानमवश्यंभाविन भणति । व्रतमपरिमाणमेवं प्रत्यक्षं स मृपावादी ॥ २५४२ ॥ २ भावः प्रत्याख्यानं स यदि मरणपरतोऽपि ततो भग्नम् । अथ नास्ति न निर्दिश्यते यावज्जीवमिति ततः कस्मात् ? ॥ २५५३ ।।
१०१७॥
Jan Educationainta
For Personal and Pre Use Only