SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१०१६। Jain Educationa Inte aapp तिकालाभ्यन्तरवार्तसाधुवदिति दृष्टान्तः स्वयमेव द्रष्टव्यः । भवतु सिद्धः संयतः, को दोषः ? इति चेत् । तदयुक्तम्, “सिद्धे नो संजए नो असंजए, नो संजयासंजए" इति वचनादिति । अपि च, अन्योऽपि दोषः । कः ? इत्याह- 'उत्तरगुणेत्यादि' उत्तरगुणः पौरुषी-पुरिमा - कासनको - पवासादितपोरूपः संवरणं बहुभिराकारैर्गृहीतस्यैकासनादिप्रत्याख्यानस्य भोजनानन्तरमाकारसंक्षेपेण स्वरूपम्, उत्तरगुणश्च संवरणं चोत्तरगुण- संवरणे तयोरेवं सर्वानागताद्धाप्रत्याख्यानपक्षेऽभ्युपगम्यमाने सर्वथैवाभावः प्रामोति पौरुष्यादिषु सर्वानागताद्धाप्रत्याख्यानत्वानुपपत्तेः, एकासनादिषु पुनंस्त्वदभिप्रायेण सर्वाद्धाप्रमाणेषु संवरणं कदाचिदपि न घटत इति व्यक्तमेवेति ।। २५३८ ।। २५३९ ।। अथापरिच्छेदोऽपरिमाणमिति तृतीयपक्षमपाकर्तुमाह- परिच्छेवि समाण एस दोसो जओ सुए तेणं । वयभंगभयाउ च्चिय जावज्जीवं ति निद्दिट्ठे || २५४० ॥ यतोsपरिच्छेद रूपेऽप्यपरिमाणेऽभ्युपगम्यमाने एष सर्वानागताद्धाप्रत्याख्यानोक्तदोषः समान एवः तथाहि--- कालापरिच्छेदेनापि प्रत्याख्याने कृते किं घटिकादिमात्रं कञ्चित् कालं प्रतक्ष्य प्रतिसेवां करोतु, आहोस्वित् सर्वमप्यनागताद्धाप्रत्याख्यानं पालयतु ? | यद्याद्यः पक्षः, तर्ह्यनवस्था, यावद् हि घटिकां प्रतीक्षते तावद् द्वे अपि घटिके किं न प्रतीक्षते, यावच्च द्वे प्रतीक्षते तावत् तिस्रोऽपि किं न प्रतीक्षते । इत्यादि । अथ द्वितीयपक्षः, तर्हि मृतस्यापि भोगानासेवमानस्य व्रतभङ्ग एव, सिद्धस्यापि संयतत्वम्, उत्तरगुणसंवरणाभावश्चेति त एव दोषाः । उपसंहरन्नाह - 'सुए तेणेत्यादि' तेनैतानपरिमाणप्रत्याख्यानदोषानभिवीक्ष्य व्रतभङ्गभयादेव त्रिपक्षपरिहारेण श्रुत आगमे "सैब्धं सावज्जं जोगं पञ्चक्खामि जावज्जीवाए" इत्यत्र साधुप्रत्याख्यानस्य “यावज्जीवम्' इति परिमाणमादिष्टम् । अतो मुच्यतामपरिमाणताग्रह इति ।। २५४० ।। आह- ननु सपरिमाणे प्रत्याख्याने मयाऽऽशंसा लक्षणो दोष उक्त एव स कथम् ? इत्याह नासा सेविसामि किंतु मा मे मयस्स वयभंगो । होही, सुरेषु को वा व्यावगासो विमुक्कस्स ? ॥२५४१ ॥ १ सिद्धो नो संयतः, नो असंयतः, नो संयतासंयतः । २ अपरिच्छेदेऽपि समान एष दोषो यतः श्रुते तेन । बूतभङ्गभयादेव यावज्जीवमिति निर्दिष्टम् || २५४० ॥ ३ सर्व सावधं जोगं प्रत्यात्यामि यजीवम् । ४ नाशंसां विषये किन्तु मा मे मृतस्य प्रतभङ्गः भून् सुरेषु को वा व्रतावकाशो विमुक्तस्य ? | २५४१ ॥ For Personal and Private Use Only बृहदत्तिः । ॥१०१६॥ www.jainelibrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy