SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१०१५। Jain Education Intern बृहद्वत्तिः । त्तियमित्ती सत्तित्ति नाइयारो न यावि पच्छित्तं । न य सव्वव्वयनियमो एगेण वि संजयत्त त्ति ॥२५३७|| ल यथा मृतस्य पञ्चत्वमुपगतस्य सुरलोकादौ सुरकामिनीसंभोगादिभोगान् भुञ्जतोऽस्मत्पक्षे दोषो न भवति तथा शक्तिरूपमपरिमाणमभ्युपगच्छतस्तव मते जीवतोऽपि भोगोपसेवायां न दोषः प्राप्नोति, 'एतावत्येव मम शक्तिः, अतो मत्प्रत्याख्यानस्य पूर्ण - त्वाज्जीवन्नपि नज्म भोगान्' इत्यभिप्रायवतस्तदभ्युपगमेन जवितोऽपि भोगानासेवमानस्य दोषानुषङ्गो न स्यादित्यर्थः । न चैतद् दृष्टिं वा जिनशासने । किञ्च, इत्थमभ्युपगमे 'एतावती मम शक्तिः' इत्यवष्टम्भवतो व्रतभङ्गनिर्भयत्वात् प्रत्याख्यानानवस्यैव स्यात्, 'एतावती मम शक्तिः' इति भोगासेवनात् पुनः प्रत्याख्यानात् पुनरप्यासेवनात् पुनः प्रत्याख्यानादिति । किञ्च व्रतानामतिचारः, तदाचरणे च प्रायश्चित्तम्, एकत्रतभङ्गे सर्वव्रतभङ्गनियमेन सर्वाण्यपि व्रतानि पालनीयानि, इति यदागमरूढं तत् सर्वमपि भवदभिप्रायेण न प्राप्नोतीति सयुक्तिकं दर्शयन्नाह - 'इत्तियमित्तीत्यादि' 'एतावत्येव मम शक्तिर्नाधिका' इत्यध्यवसायेन प्रतिसेवां कुर्वतोऽपि साधोः शक्त्यपरिमाणवादिनो भवतोऽभिप्रायेण नातिचारः, न चापि व्रतभङ्गः, न चापि प्रायश्चित्तम्, तथा सर्वत्र परिपालननियमश्च न स्यात्, शक्त्यवष्टम्भात्, एकव्रतपरिपालनेनापि त्वदभिप्रायेण संयतत्वादिति ।। २५३६ ।। २५३७ ।। अथ सर्वाप्यनागताद्धाऽपरिमाणमिति द्वितीयो विकल्प इष्यते, सोऽपि न युक्त इति दर्शयन्नाह- अहवाँ सव्वाणागयकालग्गहणं मयं अपरिमाणं । तेणापुण्णपइण्णो मओ वि भग्गवओ नाम || २५३८ ॥ सिद्धो वि संजओ च्चिय सव्वाणागयसंवरधरो त्ति । उत्तरगुण- संवरणाभावो च्चिय सव्वहा चेव || २५३९॥ व्याख्या - अथ सर्वस्याप्यनागतकालस्य ग्रहणमपरिमाणं भवतः, तेन तर्हि मृतोऽपि देवलोकादौ भोगानासेवमानः, 'नाम' इत्यामन्त्रणे, अहो ! भग्नव्रत एवं साधुः, अपूर्णप्रतिज्ञत्वात् सर्वमप्यनागतकालं तदपरिपालनादिति सुव्यक्तमेवेति । अपिच, एवं सिद्धोऽपि संयत एव प्राप्नोति, सर्वानागताद्धासंवरधरत्वात्, अस्यापि सर्वाद्धगृहीत प्रत्याख्यानकालाभ्यन्तरवर्तित्वादित्यर्थः, यावज्जीवगृहीतविर १ एतावन्मात्रा शक्तिरिति नातिचारो न चापि प्रायश्चित्तम् । न च सर्वव्रतनियम एकेनापि संयतत्वादिति ॥ २५३७ ॥ २ अथवा सर्वानागतकालग्रहणं मतमपरिमाणम् । तेनापूर्ण प्रतिज्ञो मृतोऽपि भवतो नाम | २५३८ ॥ सिद्धोऽपि संयत एव सर्वानागताद्धा संवरधर इति । उत्तरगुणसंवरणाभाव एव सर्वधा चैवम् ।। २५३९ ॥ For Personal and Private Use Only asu dao an t ॥१०१५॥ www.jainelibrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy