SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ बृहद्वत्तिः । Fol प्रकारेण तद्विध एव तीव्रादिभेदभिन्नः शुभपरिणामोऽशुभविपक्षत्वात् कर्मार्जनविपक्षभूतैतद्वियोगेऽपि हेतुः किं नेष्टः ?- ननु युक्तियुक्तविशेषा० त्वादेष्टव्य एवेति भावः । तस्माजीवेन सहाविभागेन स्थितस्यापि कर्मणः सिद्धो वियोग इति । तदेवं निराकृता कर्मविचारविषया विप्रतिपत्तिः॥२५३२ ॥ २५३३ ।।। ॥१०१४॥ अथ प्रत्याख्यानविषयां तामपाकर्तुमाह'किमपरिमाणं सत्ती अणागयहा अहापरिच्छेओ ? । जइ जावदत्थि सत्ती तो नणु सच्चेय परिमाणं ॥२५३४॥ सत्ति-किरियाणुमेओ कालो सूरकिरियाणुमेओ व्व । नणु अपरिमाणहाणी आसंसा चेव तदवत्था ॥२५३५॥ यदुक्तम्-'प्रत्याख्यानपरिमाणमेव विधीयमानं श्रेयो भवति' इति। तत्र प्रतिविधीयते-किमिदं नामापरिमाणं ?-किं शक्तिर्यावच्छ. नोमीत्यपरिमाणम् ?, उत सर्वाऽप्यनागताद्धा, आहोस्खिदपरिच्छेदः? इति त्रयी गतिः। तत्र यदि 'यावदस्ति शक्तिस्तावदहमिदं न सेवि प्ये' इत्यपरिमाणमिष्यते, ततस्तर्हि ननु सैव शक्तिः परिमाणमापन्नम् , अतो यदेव निषिध्यते तदेवाभ्युपगतमिति | कुतः ? इत्याहFOR 'सत्तीत्यादि' 'यावच्छनोमि तावदिदं न सेविष्ये' इत्येवंभूतया हि शक्तिक्रियया प्रत्याख्यानस्यावधिभूतः काल एवानुमीयते- यावन्तं कालं शक्तिस्तावन्तं कालमिदं न सेविष्य इत्यर्थः । दृष्टान्तमाह- यथा सूर्यादिगतिक्रियया समया-ऽऽवलिकादिः कालोऽनुमीयते तथा| वापि शक्तिक्रियया प्रत्याख्यानावधिकाल इत्यर्थः । अस्त्वेवमिति चेत् । तदयुक्तम् , यतो नन्वेवं सति त्वया प्रतिज्ञातस्यापरिमाणपक्षस्य हानिः प्रामोति, शक्तिक्रियानुमितकालपरिमाणस्येदानी वयमेवाभ्युपगमादिति । यदुक्तम्-'तं दुढे आससा होई' इति, तत्राह'आसंसेत्यादि' ननु शक्तिरूपेऽपरिमाणेऽपि त्वयेष्यमाणे आशंसादोषस्तदवस्थ एव, 'शक्तरुत्तरकालमिदं सेविष्ये' इत्याशंसायास्तदवस्थत्वादिति ॥ २५३४ ॥ २५३५॥ शक्तिरूपेऽपरिमाणेऽभ्युपगम्यमाने न केवलं भवतः स्वपक्षहानिः, किन्त्वन्येऽपि दोषाः । के ? इत्याहजह न वयभंगदोसो मयस्स तह जीवओ वि सेवाए । वयभंगनिब्भयाओ पच्चक्खाणाणवत्था य॥२५३६॥ १ किमपरिमाणं शक्तिरनागताद्वाऽथापरिच्छेदः । यदि यावदस्ति शक्तिस्ततो ननु सैव परिमाणम् ॥ २५३४ ॥ शक्ति क्रियानुमेयः कालः सूरक्रियानुमेय इव । नवपरिमाणहानिराशंसा चैव तदवस्था ॥ २५३५॥ २ गाथा २५१७॥ २ यथा न प्रतभङ्गदोषो मृतस्य तथा जीवतोऽपि सेवायाम् । व्रतभङ्गनिर्भयात् प्रत्याख्यानानवरथा च ॥ २५३६ ॥ ॥१०१४॥ For Personal and Price Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy