________________
BHAROO
her
विशेषा०
दु
॥१०१३॥
कर्मणा सहाविभागावस्थानं तदप्यभव्यानां न वियुज्यते । भव्यानां तु कर्मसंयोगस्तथाविधज्ञान-दर्शन-चारित्र-तपःसामग्रीसद्भावे वियुज्यते, वहन्यौ-पध्यादिसामग्रीसत्वे काञ्चनो-पलसंयोगवदिति । तथाविधज्ञानादिसामग्यभावे तु भव्यानामपि कर्मसंयोगः कदापि न निवर्तते, | "नो चेव णं भवसिद्धियविरहिए लोए भविस्स" इति वचनात् । तर्हि भव्याः कथं ते व्यपदिश्यन्ते ? इति चेत् । उच्यते- योग्यतामात्रेण । न च योग्यः सर्वोऽपि विवक्षितपर्यायेण युज्यते, प्रतिमादिपर्याययोग्यानामपि तथाविधदारु-पाषाणादीनां तद्विधसामग्यभावे केषाश्चित तदयोगादित्यलं विस्तरेण, प्रागेव गणधरवादेऽस्यार्थस्य विस्तरेणोक्तत्वात् । तस्मात् 'कर्म जीवाद् न वियुज्यते, अन्योन्याविभागेनावस्थितत्वात् , इत्यनैकान्तिकम् , उपायतो दृश्यमानवियोगैः क्षीरनीर-काञ्चनोपलादिभिभिचारात् । ननु प्रस्तुतो जीव-कर्माविभागः केनोपायेन विघटत इति चेत् । नन्वभिहितमेव 'ज्ञान-क्रियोपायतः' इति । मिथ्यात्वादिभिर्हि जीव-कर्मसंयोगः क्रियते, मिथ्यात्वादिविपक्षभूताश्च सम्यग्ज्ञानादयः, अतस्तैस्तद्वियोगो युक्तियुक्त एव, अन्नभोजनादिविपक्षभूतैलङ्गानादिभिस्त जनिताजीर्णसंयोगवदिति ॥२५३१|
___ अथादेवादिषु देवादिबुद्ध्याऽभिगमन-वन्दनादिभिहिंसादिभिश्च क्रियाभिर्जीवस्य कर्मणा संयोग इष्यते, न तु दया-दान पालन-शील-समिति-गुप्त्यादिक्रियाभिस्तद्वियोग इत्याशङ्कयाह
केह वादाणे किरियासाफल्लं नेह तबिघायम्मि । किं पुरिसगारसज्झं तस्सेवासज्झमेगं तो ॥ २५३२ ॥ असुभो तिव्वाईओ जह परिणामो तदजणेऽभिमओ। तह तविहो च्चिय सुभो किं नेट्ठो तविओगे वि?॥२५३३॥
वाशब्दो युक्तरभ्युच्चये । कथं वा हन्त ! कर्मण आदाने ग्रहणे हिंसादिक्रियाणां साफल्यमिह त्वयेष्यते ?,- न तु दया-दानादिक्रियाणां तद्विधाते साफल्यमभिप्रेयते, किमत्र राज्ञामाज्ञा प्रभवति, न तु युक्तिः । किञ्च, इदमपि प्रष्टव्योऽसि, किं पापस्थानव्यापृतपुरुषकारसाध्यं 'एगे' इतीहापि संबध्यते, एकं कर्मण आदानमिष्यते, एकं तु यत् तस्य निर्जरणं तत् तस्यैव संयमादिस्थानविहितपुरुषकारस्यासाध्यमिष्यते ? इत्येतदपि व्यक्तमेवेश्वरचेष्टितं भवतः, रूच्छाप्रवृत्तेः । उपसंहरन्नाह- 'तो ति' तस्माद् यथा येन प्रकारेण तीव्र-मन्द-मध्यमभेदभिन्नोऽशुभः परिणामस्तदर्जने तस्य कर्मणोऽर्जनमुपादानं ग्रहणं तत्र हेतुर्भवतोऽभिमतः, तथा तेनैव
, नो चैव भवासद्धिकविरहित लोके भविनः । २ कथं वाऽऽदाने क्रियासाफल्य नेह तद्विघाते । किं पुरुषकारसाध्यं तस्यैवासाध्यमेकं, ततः ॥ २५३२ ॥ अनुभस्तीवादिको तथा परिणामस्तदनेऽभिमतः । यथा तद्विध एवं शुभः किं नेष्टस्तद्वियोगेऽपि ? ॥ २५३३ ॥
पटSaxi
१०१३॥
PORN
For Personal d
e
sent