________________
विशेषा
lama
hru
॥१०१२॥
चलनं च संचरणमेवोच्यते, तत् किमिति तदिह निषिध्यते । तदयुक्तम् , अभिप्रायापरिज्ञानादित्याह- 'चलियमित्यादि "नेरईए जाव बेमाणिए जीवाउ चलियं कम्मं निजरई" इत्यादिवचनात् , तथा “निर्जीयमाणं निर्जीर्णम्" इति वचनाच्च यद् यस्मात् समये आगमे चलितं कर्म निर्जीणमुक्तं तदकमैव भणितम् , तच्च मध्ये गतमपि न वेदनां जनयितुमलम् , अकर्मणो नभः-परमाण्वादेरिव तत्सामयाभावात् । तस्मादित्थमनेकदोषदुष्टत्वादयुक्तं कर्मणः संचरणमिति । अतो मध्ये व्यवस्थितं कर्मास्तीति स्थितम् ॥२५२९॥
मध्ये कर्मावस्थानसाधनार्थमेव प्रमाणयन्नाहअंतो वि आत्थि कम्मं वियणासम्भावओ तयाए व्व । मिच्छत्ताईपच्चयसब्भावओ य सव्वत्थ ॥ २५३० ॥ ___ अन्तमध्येऽप्यस्ति कर्मेति प्रतिज्ञा | वेदनासद्भावादिति हेतुः । त्वचीवति दृष्टान्तः । इह यत्र वेदनासद्भावस्तत्रास्ति कर्म, यथा त्वपर्यन्ते, अस्ति चान्तर्वेदना, ततः कर्मणापि तत्र भवितव्यमेवेति । किञ्च, मिथ्यात्वादिभिः प्रत्ययैः कर्म बध्यते, ते च जीवस्य यथा बहिस्तनप्रदेशेषु तथा मध्यप्रदेशेष्वपि, यथा मध्यप्रदेशेषु तथा बहिष्पदेशेष्वपि सर्वत्र सन्ति, तेषामध्यवसायविशेषरूपत्वात् , अध्यव
सायस्य च समस्तजीवगतत्वादिति । तस्माद् मिथ्यात्वादीनां कर्मबन्धकारणानां जीवे सर्वत्र सद्भावात् तत्कार्यभूतं कमापि सर्वत्रैव - तत्रास्ति, न पुनर्बहिरेव । तस्माद् वन्ययापिण्ड-क्षीरनीरादिन्यायाजीवेन सहाविभागंनैव स्थितं कर्मेति प्रतिपद्यतां सत्पक्षः, त्यज्यतां मिथ्याभिमान इति ॥ २५३० ॥
आह- ननु यदि जीव-कर्मणोरविभागः, तर्हि तद्वियोगाभावाद् मोक्षाभाव इत्युक्तयेव दृषणमित्याशझ्याहअविभागत्थस्स वि से विमायणं कंचणो-वलाणं व । नाण-किरियाहिं कीरइ मिच्छत्ताईहिं चायाणं ॥ २५३१ ॥ _ 'से तस्य कर्मणो जीवेन सहाविभागेन स्थितस्यापि काश्चनो-पलयोरिव विमोचनं वियोगो ज्ञान-क्रियाभ्यां क्रियते । तथा, तस्यैव कर्मणो मिथ्यात्वादिभिरादानं ग्रहणं जीवेन सह संयोगो विधीयत इत्यर्थः । इदमत्र हृदयम्- इह जीवस्याविभागेनावस्थानं द्विधा विद्यते- आकाशेन सह, कर्मणा च । तत्राकाशेन सह यदविभागावस्थानं तद् न वियुज्यत एव, सवोद्धयवधानात् । यतु
१ नैरयिका यावद् पैमानिका जीवाश्चलितं कर्म निर्जीयन्ति । २ अन्तरष्यस्ति कर्म वेदनासजावतस्त्व चीव । मिथ्यावादिप्रत्ययसनावाच सर्वत्र ॥ २५३० ॥ ३ अविभागस्थरयापि तस्य विमोचनं कानो-पलयोरिव । ज्ञान-क्रियाभ्यां क्रियते मिथ्यात्वादिभिश्चादानम् ॥ २५३१ ।।
१०१२॥
JanEducatara
Per Personal and
Use Only
www.jainmsbrary.org