________________
स
सरकार
का
ROTICE
मध्ये कर्मणापि भाव्यमिति सिद्धोऽस्मत्पक्ष इति । अथैवं मन्यसे-बहिस्त्वपर्यन्तवर्त्यपि कर्म मध्येऽपि शूलादिवेदनां जनयति न पुनर्मविशेषा
ध्ये कर्मास्ति । तदयुक्तम् , यतो यदि वहिवर्तिविभिन्नदेशस्थितमपि कर्मान्यस्मिन् मध्यलक्षणे देशान्तरे वेदनां करोतीत्यभ्युपगम्यते,
एवं तर्हि कथं केन हेतुनाऽन्यशरीरगतं कर्मान्यस्य यज्ञदत्तादेर्वेदनां न करोति ?- ननु करोतु नाम, एवमपि देशान्तरत्वाविशेषादिति ॥१०११॥ भावः ॥ २५२५ ॥ २५२६ ॥ २५२७ ॥
अत्र पराभिप्रायमाशङ्कय परिहर्तुमाहअह तं संचरइ मई न बहिं तो कंचुगो व्व निच्चत्थं । जं च जुगवं पि वियणा सव्वाम्म वि दीसई देहे ॥२५२८॥
अथ भवतो मतिः- एकस्य देवदत्तशररिस्य बहिरन्तश्च संचरति तत्कर्म, ततस्तत्र बहिरन्तश्च वेदनां जनयति, न शरीरान्तरे, EM स्वाधारशरीरे बहिरन्तश्च संचरणात् , अन्यशरीरे स्वसंचरणादिति । अत्रोच्यते- 'न बहिमित्यादि' ततस्तर्हि सर्पस्य कञ्चुकव
ज्जीवस्य बहिरेव कर्म नित्यं तिष्ठतीति नित्यस्थमिति यद् भवतो मतं तद् न पामोति, किन्तु कदाचिद् बहिः, कदाचित् त्वन्तः | कर्मणः संचरणाभ्युपगमात् 'कञ्चुकवद् बहिरेव तिष्ठति' इति नियमस्याघटनात् 'लवत एव तदिति भावः । किञ्च, कर्मणः संचरणे बहिरन्तश्च क्रमेणैव वेदना स्यात् , न चैतदस्ति, लगुडायभिघाते बहिरन्तश्च युगपदेव वेदनादर्शनात् , तस्माद् न कर्मणः संचरणमुपपद्यत इति ॥ २५२८ ॥
कर्मणः संचरणे दूषणान्तरमप्याह--
नै भवंतरमण्णेइ य सरीरसंचारओ तदनिलो व्व । चलियं निजरियं चिय भणियमकम्मं च जं समए ॥२५२९॥
किञ्च, यदि संचरिष्णु कर्माभ्युपगम्यते, तर्हि मृतस्य तद् भवान्तरं नान्वेति- भवान्तरे तस्यानुगमनं न प्रामोतीत्यर्थः । शरीरे संचरणादिति हेतुः। अनिलवदिति दृष्टान्तः । इह यत् शरीरे बहिरन्तश्च संचरति न तद् भवान्तरमन्वेति, यथोच्छास-निःश्वासानिलः, तथा च कर्म, तस्माद् न भवान्तरमन्वेतीति । आह- नन्वागमेऽपि “चलमाणे चलिए" इति वचनात् कर्मणश्चलनमुक्तम् ,
१ अथ तत् संचरति मतिनं बहिस्ततः कन्चुक इव नित्यस्थम् । यच्च युगपदपि वेदना सर्वस्मिन्नपि दृश्यते ॥ २५२८ ॥ २ न भवान्तरमन्वेति च शरीरसंचारतस्तदनिल इव । चलितं निर्जीणमेव भाणितमकर्म च यत् समये ॥ २५२९ ॥ ३ चल्यमानं चलितम् । ४ भगवत्या प्रथमशतके प्रथमोदेशे।
१०११॥
For Posod
e
On