________________
विशेषा०
॥१०१०॥
Jain Education Inter
कञ्चुकेऽभावादिति । द्वितीयविकल्पमधिकृत्याह - 'अहेत्यादि' अथ जीवस्य वहिस्त्वक्पर्यन्ते वृत्तत्वात् कञ्चुकवत् स्पृष्टं कर्मेध्यते, तर्हि भवाद् भवान्तरं संक्रामतोऽन्तराले तद् नानुवर्तते तदनुवृत्तिर्न प्रामोति त्वक्पर्यन्ते वृत्तत्वेन तदनुगमाभावात्, बाह्याङ्गलवदिति सुव्यक्तमेव, बालानामपि प्रतीतत्वादिति । भवत्वननुवृत्तिः कर्मणो भवान्तराले को दोषः ? इत्याह- 'एवमित्यादि' एवं कर्मणोऽननुवृत्तौ सत्यां सर्वेषामपि जीवानां विमोक्षः संसाराभावः प्राप्नोति, संसारकारणस्य कर्मणोऽभावात् । अथ निष्कारणोऽपि संसार इष्यते, तर्हि ये व्रतपो-ब्रह्मचर्यादिकष्टानुष्ठानानि कुर्वते तेषामपि सर्वेषां संसार एव स्यात्, निष्कारणत्वाविशेषात् । निष्कारणं च जायमानं भवमुक्तानामपि सिद्धानामपि पुनरपि संसरणं संसारः स्यादिति मुक्तावप्यनाश्वास इति ।। २५२२ ।। २५२३ ।। २५२४ ।।
किञ्च पर्यन्तवर्तिनि कर्मणीष्यमाणेऽपरोऽपि दोषः । कः ? इत्याह-
देहंतो जावियणा कम्माभावम्मि किंनिमित्ता सा ? । निक्कारणा वा जइ तो सिद्धो वि न वेयणारहिओ ।। २५.२५ ।। जइ बज्झनिमित्ता सा तदभावे सा न हुज्ज तो अंतो । दिट्ठा य सा सुबहुसो बाहिं निव्वेयणस्सावि || २५२६|| जवा विभिण्णसं पिवेयणं कुणइ कम्ममेवं तो। कहमण्णसरीरगयं न वेयणं कुणइ अण्णस्स ? || २५२७|| व्याख्या- यदि कञ्चुकवद् बहिरेव वर्तते कर्म, तदा देहस्यान्तर्मध्ये या शूल-नालगुल्मादिवेदना सा किंनिमित्तेति वक्तव्यम्, मध्ये तत्कारणभूतस्य कर्मणोऽभावात् ? । अथ निष्कारणापि देहान्तर्वेदनाऽभ्युपगम्यते, ततस्तर्हि सिद्धोऽपि न वेदनारहितः स्यात्, निष्कारणत्वाविशेषादिति । अथ बाह्यवेदनानिमित्ता सान्तर्वेदनाऽभ्युपगम्यते, बहिर्वेदना हि लगुडघातादिजन्या प्रादुर्भवन्ती मध्येsपि वेदनां जनयत्येवेति यदि तवाभिप्रायः, तर्हि तदभावे लगुडघातादिजन्यवेदनाविरहे साsन्तर्वेदना न भवेद् न जायेत । अस्त्वेवमिति चेत् । तदयुक्तम्, यतो दृष्टाऽसौ बहुशः शूलादिप्रभवान्तर्वेदना । कस्य ? इत्याह- 'वाहिमित्यादि' बहिर्निर्वेदनस्यापि बहिल गुडादिघातजन्य वेदनारहितस्यापीत्यर्थः । यदि ह्ययं नियमः स्याद् यदुत - वहिले गुडघातादिवेदना सद्भाव एवान्तर्वेदना प्रादुर स्तीति, तदा स्यादपि त्वदभिप्रेतम् । न चैवम्, यतोऽनुभूयते दृश्यते च वहिर्वेदनाऽभावेऽपि यथोक्तान्तर्वेदना, ततस्तत्कारणभूतेन
१ देहान्तर्या वेदना कर्माभावे किंनिमित्ता सा ?। निष्कारणा वा यदि ततः सिद्धोऽपि न वेदनारहितः ॥ २५२५ ॥ यदि बाह्यनिमित्ता सा तदभावे सा न भवेत् ततोऽन्तः । दृष्टा च सा सुबहुशो बहिर्निर्वेदनस्यापि ॥ २५२६ ॥ यदिवा विभिन्नदेशामपि वेदनां करोति कर्मैवं ततः । कथमन्यशरीरगतां न वेदनां करोत्यन्यस्य ? ॥ २५६७ ॥
Private Use Only
deeparpopogas
For Personal and Pri
बृहद्वत्तिः ।
॥१०१०॥
www.jainelibrary.org