________________
Jeee SHRIRIDORE
बृहदृत्तिः ।
विशेषा• ॥१०००॥
तदेवं विप्रतिपन्नेन गोष्ठामाहिलेन यत् पूर्वपक्षीकृतं तद् विन्ध्येन गत्वा गुरोर्दुलिकापुष्पमित्रस्य निवेदितम् । गुरुणा चात्तरपक्षभूतं सर्वमपि प्रतिविधानं तस्योपदिष्टम् , तेनापि गत्वा गुरूपदेशेन सर्व गोष्ठामाहिलस्य प्रतिपादितम् । स च मिथ्याभिमानाद् गाढ- माविष्टो यावद् न किश्चित् प्रतिपन्नवान् , तावद् गुरुणा स्वयमाभिमुख्येनोक्त इति ॥ २५२० ॥
एतदेवाह
बिंझपरिपुच्छियगुरूवएसकहियं पि न पडिवन्नो सो । जाहे ताहे गुरुणा सयमुत्तो पूसमित्तेणं ॥ २५२१ ॥ गतार्था ॥ २५२१॥ किमुक्तः ? इत्याह
किं कंचुओ व्व कम्मं पइप्पएसमह जीवपज्जंते । पइदेसं सव्वगयं तदंतरालाणवत्थाओ ॥ २५२२ ॥ अह जीवबहिं तो नाणुवत्तए तं भवंतरालम्मि । तदणुगमाभावाओ बझंगमलो व सुव्बत्तं ॥ २५२३ ॥ एवं सव्वविमुक्खो निक्कारणउ व्व सव्वसंसारो । भवमुक्काणं च पुणो संसरणमओ अणासासो ॥२५२४॥
व्याख्या-'पुढो जहा अबद्धो कंचुइणं' इत्यादिगाथायां कञ्चुकवत् स्पृष्टमेव जीवे कर्म न तु बद्धमिति यदुच्यते भवता, तद् विचायते-कि कञ्चुकवत् स्पृष्टं कर्म जीवस्य प्रतिपदेशं वृत्तं सदुच्यते, आहोस्विज्जीवपर्यन्ते त्वक्पर्यन्त एव वृत्तं स्पृष्टमिष्यते ? इति द्वयी गतिः। तत्र यदि प्रतिदेशं वृत्तत्वात् स्पृष्टमिष्टम् , तर्हि जीवे सर्वगतं कर्म पामोति, नभोवत् । कुतः सर्वगतम् ? इत्याह- "तदन्तराले| त्यादि' तस्य जीवस्यान्तरालं मध्यं तदन्तरालं तस्यानवस्थातः तस्य काव्याप्तस्यानवस्थानादनुधारणादित्यर्थः । न हि प्रतिपदेशं
वृत्ते कर्मणि जीवस्य कोऽपि मध्यप्रदेश उद्धरति । येन कर्मणस्तत्रासर्वगतत्वं स्यात् । तस्मादाकाशेनेव कर्मणा जीवस्य प्रतिदेशं व्याप्तत्वात | तस्य जीचे सर्वगतत्वं सिद्धमेव । एवं च सति साध्यविकलत्वात् कञ्चुकदृष्टान्तोऽसंबद्ध एव प्रामोति, साध्यस्य यथोक्तस्पर्शनस्य
DOHDCHOURS
e eese
विन्ध्यपरिपृष्टगुरूपदेशकथितमपि न प्रतिपन्नः सः । यदा तदा गुरुणा स्वयमुक्तः पुष्पमित्रेण ॥ २५२१ ॥ २ किं कन्चुक इव कर्म प्रतिप्रदेशमथ जीवपर्यन्ते । प्रतिदेशं सर्वगतं तदन्तरालानवस्थातः ॥ २५२२ ॥ अथ जीवबहिस्ततो नानुवर्तते तद् भवान्तराले । तदनुगमाभावाद् बाह्माजमल इव सुव्यक्तम् ।। २५२३ ॥ एवं सर्वविमोक्षो निष्कारणको वा सर्वसंसारः । भवमुक्तानां च पुनः संसरणमतोऽनाश्वासः ।। २५२४ ॥ ३ गाथा २५१७ ।
१००९॥
Jain Educationa.Inter
For Personal and Price Use Only