________________
NION
बृहद्वत्तिः।
विशेषा० ॥१००८॥
स गोष्ठामाहिलः कर्मविचारे विप्रतिपन्नः पुनरन्यदा नवमपूर्वे "करेमि भन्ते ! सामाइयं सर्व सावज जोगं पच्चक्खामि" इत्यादि याव जीवावधिकं साधूनां संबन्धि प्रत्याख्यानं भण्यमानं विन्ध्यसमीपे विचार्यमाणं शृणोति ।। २५१८ ॥
तदेवं श्रुत्वा किं करोति ? इत्याहजंपइ पच्चक्खाणं अपरिमाणाए होइ सेयं तु । जेसिं तु परिमाणं तं दुळं आससा होइ ॥ २५१९ ॥
गोष्ठामाहिलो जल्पति,- ननु प्रत्याख्यानं सर्वमप्यपरिमाणतयाऽवधिरहितमेव क्रियमाणं श्रेयोहेतुत्वात् श्रेयः शोभन भवति । | येषां तु व्याख्याने यावज्जीवादिपरिमाणमवधिविधीयते, तेषां मतेन तत् प्रत्याख्यानमाशंसादोषदुष्टत्वाद् दुष्टं सदोषंपामोति ॥२५१९॥
अत्र भाष्यम्
आसंसा जा पुण्णे सेविस्सामि त्ति दूसियं तीए । जेण सुयम्मि विभणियं परिणामाओ असुद्धं तु ॥२५२०॥
'आशंसातः प्रत्याख्यानं दुष्टम्' इत्युक्तम् । तत्राशंसा का? इत्याह- 'जत्ति' यैवंविधपरिणामरूपा । कथंभूतः परिणामः ? इत्याह- 'पूर्णे प्रत्याख्याने देवलोकादौ सुराङ्गनासंभोगादिभागानहं सेविष्ये' इत्येवंभूतपरिणामरूपा च याऽऽशंसा तया प्रत्याख्यानं दूषितं भवति । कुतः? इत्याह- येन श्रुतेऽप्यागमेपि भणितम्- दुष्टपरिणामाशुद्धेः प्रत्याख्यानमशुद्धं भवति; तथाचागमः
"सोही सद्दहणा जाणणा य विणएऽणुभासणा चेव । अणुपालणा विसोही भावविसोही भवे छठ्ठो ॥ १॥" तत्र "पंचक्खाणं सव्वन्नुदेसियं" इत्यादिना श्रद्धानादिषु व्याख्यातेषु भावविशुद्धेर्यद् व्याख्यानं तत् प्रकृतोपयोगीति दश्यते
"गेण व दोसेण व परिणामेन व न दूसियं जं तु । तं खलु पच्चक्खाणं भावविसुद्धं मुणेयव्वं ॥ १॥” इति ।
१ करोमि भगवन् ! सामायिकं सर्व सावयं योग प्रत्याख्यामि । २ जल्पति प्रत्याख्यानमपरिमाणतया भवति श्रेयस्तु । येषां तु परिमाणं तद् दुष्टमाशंसा भवति ॥ २५१९ ॥ ३ आशंसा या पूणे सेविष्य इति दूषितं तया । येन श्रुतेऽपि भणितं परिणामादधुवं तु ॥ २५२० ॥ ४ शुद्धिः श्रद्धानं ज्ञानज्ञा च विनयेऽनुभाषणा चैव । अनुपालना विशुद्धिर्भावविशुद्धिर्भवेत् षष्ठीः ॥ २५२१॥ ५ प्रत्याख्यानं सर्वज्ञदेशितम् । ६ रागेण दोषेण या परिणामेन वा न दूषितं यत्तु । तत् खलु प्रत्याख्यानं भावविशुद्ध ज्ञातव्यम् ॥ २५२२ ॥
॥१००८॥
Jain Educationa.Inte
For Personal and Price Use Only