________________
विशेषा०
॥ ११७० ॥
सओ रसो कताओ कसायकम्मोदओ य भावम्मि । सो कोहाइ चउडा नामाइ चउविहेक केक्को ।। २९८५ ॥ हरीतक्यादीनां यो रसः स रसतः कपायो रसकषायः । भावकपायस्तु मोहनीय कर्मोदयः, तज्जनितश्च कषायपरिणामः । स च क्रोधादिभेदाच्चतुर्वा । क्रोधादिरपि प्रत्येकं नामादि मेदाच्चतुविध इति ।। २९८५ ।।
अथ नामादिकषायाणां को नयः कमिच्छति? इत्याह
भवं साइनया अहिमसुद्धनेगमाईया । आएसुप्पत्तीओ सेसा जं पच्चयविगप्पा ॥ २९८६ ॥ भावकषायमेव शुद्धत्वात् शब्दनया इच्छन्ति, न नापादिकषायान् । शेषास्तु ऋजुमूत्रवर्जा नैगमादिनयाः द्विधा - शुद्धा अशुद्धाय । तत्राविशुद्धा अष्टविधमपि नामादिकषायमिच्छन्ति । ये तु विशुद्धाः, तथा ऋजुनयश्चैते सर्वेऽप्यादेशो- त्यत्तिकषायौ नेच्छन्ति । कुतः ? इत्याह- 'जं पच्चयविप्पत्ति' यद् यस्मादेतौ द्वावपि प्रत्ययकपायविकल्पौ प्रत्ययकपायाद् न भिद्येतेः तथाहि - उत्पत्तिकषायः कषायोत्पत्तौ प्रत्यय इत्युक्तमेव तथा, आदेशकषायोऽपि कैतवकृतोऽप्यन्यकपायोत्पत्तौ प्रत्ययो भवत्येवेति न तस्मात् तौ भिन्नाविति ।। २९८६ ॥
अथ नामादिके द्रव्यक्रोधे ज्ञशरीर भव्यशरीरव्यतिरिक्तं द्रव्यक्रोधमाह
विहो व कोहो कम्मदव्वे य नोयकम्मम्मि । कम्मदव्वे कोहो तज्जोग्गा पोग्गला णुइया ॥ २९८७ ॥ नोकम्मदव्बकोहो नेओ चम्मारनीलिकोहाई । जं कोहवेयणिज्जं समुइण्णं भावको हो सो ॥ २९८८ ॥
व्याख्या-ज्ञ भव्यशरीरव्यतिरिक्तः द्रव्यक्रोधो द्विधा- कर्मद्रव्यक्रोधः, नोकर्मद्रव्य क्रोधश्च । तत्र योग्यादयोऽनुदिताश्चतुर्विधाः पुद्गलाः कर्मद्रव्य क्रोधः । नोकर्मद्रव्य क्रोधस्तु 'कोहो त्ति' प्राकृतशब्दमाश्रित्य चर्मकारचर्मकोथो नीलकोथादिव ज्ञेयः । भावक्रोधमाह-यत् क्रोधवेदनीयं कर्मविपाकतः समुदीर्णमुदयमागतं तज्जनितश्च क्रोधपरिणामः स भावक्रोध इति । एवं मानादयोऽपि नामादिमेदाद् यथायोगं चतुर्विधा वाच्याः ।। २९८७ ।। २९८८ ॥
Jain Education International
१ रसतो रसः कषायः कषायकर्मोदयश्च भावे । स क्रोधादिश्चतुर्धा नामादिश्चतुविध एकैकः ॥ २९८५ ॥ २ भावं शब्दादिनया अष्टविधमशुद्ध नैगमादिकाः । आदेशोत्पत्ती शेषा यत् प्रत्ययविकल्पौ ॥ २९८६ ॥ ३ द्विविधो वा द्रव्यधः कर्मद्रव्ये च नोकर्मद्रव्ये । कर्मध्ये क्रोधस्तद्योग्याः पुद्गला अनुदिताः ॥ ३९८७ ॥ गोकर्मद्रव्यक्रोधो ज्ञेयश्चर्मकार नीलकोथादिः । यत् क्रोधवेदनीयं समुदीर्ण भावक्रोधः सः ॥ २९८८ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
11880011
www.jainelibrary.org