________________
विशेषा०
॥११६१॥
Jain Education Inter
Masa
यद् यस्मात् सम्यग्दर्शनादिको मोक्षमार्गों 'यथावदयम्' इत्येवं रुचिः प्रीतिर्जायत उत्पद्यते भव्यजन्तूनां 'तेहिंतो त्ति' तेभ्यः सिद्धेभ्य एव, नेतरथा नान्यथा । कुतः १ इत्याह- तदविप्रणाशात् तेषां सिद्धानां शाश्वतभावोपगमात् तथा, तत्फलोपलम्भात् तेषामेव सिद्धानां शाश्वतानुपम सुखलक्षणस्य फलस्योपलम्भात् । ततस्तदुपकारोऽसौ मार्गे रुच्याविर्भावलक्षणः सिद्धकृतोsangपकार इति ।। २९५४ ॥
अत्र परमतमाशङ्कय परिहरन्नाह
जिणवयणाउ च्चिय तदत्थिया तप्फलोवलंभो य । सच्च तहावि तप्फलसन्भावाओ रुई होइ ॥ २९५५॥ ननु जिनवचनाज्जिनोपदेशादेव तदर्थिता तत्र मार्गे रुचिलक्षणार्थिता, तस्य मार्गस्य यत् फलं सिद्धिसुखलक्षणं तदुपलम्भव सर्वमिदं जायते, तत् किमविप्रणाशहेतूपन्यासेन ? । सत्यम्, तथापि तस्य मार्गस्य यत् फलं सिद्धत्वप्राप्तिलक्षणं तस्य सद्भावादविप्रणाशात् शाश्वतभावाद् विशेषिततरा मार्गे रुचिर्भवतीति । अतो वक्तव्य एव सिद्धानामविप्रणाशलक्षणो हेतुरिति ।। २९५५ ॥
पुनरपि परमतमाशङ्कय परिहरन्नाह
are far fearग्गो निच्छयओ तह रुई सम्मत्तं ति । मग्गोवयारिणो जह जिणा तहा खीणसंसारा ॥ २९५६ ॥
ननु 'दुप्पत्थिओ अमित्तं अप्पा सुपत्थिओ हवइ मित्तं' इत्यादिवचनाद् निश्चयतो निश्चयनयमतेनात्मैव शिवमार्गो मोक्षमार्गः, तथा, रुचिश्च सम्यक्त्वमात्मैव नापर इति, अतः किमत्र बाह्येनाविप्रणाशहेतु नोपन्यस्तेन १ । सत्यम्, तथापि व्यवहारनयमतेन यथा मार्गोपदेशनाज्जिनास्तीर्थकरा मार्गोपकारिण उच्यन्ते तथा क्षीणसंसारा अपि सिद्धा अविप्रणाशेन मार्गोपकारिणोऽभिधीयन्त इति न दोषः ।। २९५६ ।।
अाचार्याणामुपाध्यायानां च नमस्कारार्हहेतुत्वं व्याचिख्यासुराह-
आयासणाओ पुज्जा परमोवगारिणो गुरवो । विणयाइगाहणा वा उवज्झाया सुक्तया जं च ॥ २९५७॥
१४६
१ ननु जिनवचनादेव तदर्थिता तत्फलोपलम्भश्च । सत्यं तथापि तत्फलसद्भावाद् रुचिर्भवति ॥ २९५५ ॥
२ आरंभव शिवमार्गे निश्चयतरसधा रुचिः सम्यवत्वमिति । मागपकारिणो यथा जिनास्तथा क्षीणसंसाराः ॥ २९५६ ।। ११६१ ॥ दुष्प्रार्थितोऽमित्रमात्मा सुप्रार्थितो भवति मित्रम् । ४ आचारदेशनात् पूज्याः परमोपकारिणो गुरवः । विनयादिप्राहणाद् वोपाध्यायाः सूत्रदा यच्च ॥ २९५७ ॥
For Personal and Private Use Onty
बृहद्वत्तिः ।
प्रव
www.jainelibrary.org