SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ इह तेषामभावात् , असतश्चोपकारायोगादित्यभिप्रायः ॥ २९५१ ॥ विशेषा० अत्रोत्तरमाह॥११६०॥ जइ तग्गुणपूयाओ फलं पवन्नं नणूवगारो सो । तेहिंतो तदभावे का पूया किं फलं वा से ? ॥२९५२॥ यदि तद्गुणपूजातो गुणवत्सिद्धगुणपूजनात् फलमस्तीति त्वया प्रतिपन्नम् , तर्हि नन्वसावेव तेभ्यः सिद्धेभ्य उपकारस्त्वयापि प्रतिपन्नः, अन्यथा तदभावे सिद्धाभावे का तेषां पूजा, किं वा 'से' तस्य पूजकस्य फलम् ? । एवं च सति निस्तावविप्रणाशबुद्धिरपि सिद्धाभावे न भवतीत्ययमुपकारस्तेभ्यः किं नेष्यते इति ।। २९५२ ।। अथवा, 'अविप्रणाशबुद्धिहेतुत्वाद् मार्गोपकारिणः सिद्धाः' इत्ययमर्थोऽन्यथापि साध्यते । कथम् ? इत्याह गेंतुरणासाओ वा सम्मग्गोऽयं जहिच्छियपुरस्स । सिद्धो सिद्धेहिंतो तदभावे पच्चओ कत्तो ? ॥२९५३॥ ___ अथवा, अयं सम्यग्दर्शन-ज्ञान-चारित्रलक्षणो मार्गो यथेप्सितपुरस्य मोक्षनगरस्य सन्मार्ग इत्येवं सिद्धेभ्य एव सिद्धो निश्चितः, नान्यस्मात् । कुतः ? इत्याह- 'गंतुरणासाउ ति 'मोक्षपुरं गन्तुर्मुमुक्षोरपायाभावतोऽनाशादविषणाशात् । तदनाशे च सन्मार्गोऽयं सम्यग्दर्शनादिको मोक्षपुरस्य मार्ग इत्येवं मुमुक्षूणां प्रत्ययोत्पादात, तदभावे तु सिद्धविप्रणाशे कुतोऽयं प्रत्ययः स्यात् ?Modन कुतश्चिदित्यर्थः । इदमत्र हृदयम्- यथा पाटलिपुत्रादिनगरमार्गः कश्चिद् यथेप्सितपुरं गन्तुः सार्थवाहस्य निरपायगमनेनावि प्रणाशात् 'सन्मार्गोऽयम्' इति निश्चीयते । एवं सम्यग्दर्शनादिको मोक्षपुरमार्गोऽपि तदभीष्टं मोक्षपुरं गन्तुर्भध्यजन्तुसार्थस्य निरपायगमनेनाविप्रणाशात 'सन्मार्गोऽयम्' इति निश्चीयते । अत एवंभूतनिश्चयजनकत्वाद् मार्गोपकारिणः सिद्धाः, ततः पूज्या इति ॥ २९५३ ।। अपि च, मैग्गम्मि रुई तदविप्पणासओ तप्फलोवलंभाओ। जं जायइ तेहिंतो नेयरहा तदुवगारो से ॥२९५४॥ E११६॥ १ यदि तद्गुणपूजातः फलं प्रपन्नं ननपकारः सः । तेभ्यस्तदभावे का पूजा किं फलं वा तस्य ? ॥ २९५२ ॥ २ गन्तुरनाशाद् वा सन्मार्गोऽयं यथेप्सितपुरस्य । सिद्धः सिद्धभ्यस्तदभावे प्रत्ययः कुतः। ॥ २९५३ ॥ ३ मार्गे रुचिस्तदविप्रणाशतस्तत्फलोपलम्भात् । यज्जायते तेभ्यो नेतरथा तदुपकारस्तस्य ॥ २९५४ ॥ Jain Educationa.Inte For Personal and Price Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy