________________
विशेषा.
बृहद्वात्तिः ।
||११५७॥
ते पञ्चविधवस्तुरूपा अर्हत्-सिद्धादयो ज्ञेया ये ज्ञानादिगुणसमूहमयत्वाद् मूर्तज्ञानादिगुणा इव गुणार्थिनां ज्ञानादिगुणाभिलाषिणां भव्यजीवानां पूज्या इति । तदत्राहदादीनां पूज्यत्वे 'गुणमयत्वात्' इति हेतुरुक्तः ॥ २९४२ ॥
अथवा, हेत्वन्तरमप्याह-- मोक्खत्थिणो व जं मोक्खहेयवो दसणादितियगं व । तो तेऽभिवंदणिज्जा जइ व मई हेयवो कह ते ? ॥२९४३॥
यस्माद् वा मोक्षार्थिनो भव्यसत्त्वस्य मोक्षहेतवोऽहंदादयस्ततस्तेऽभिवन्दनीयाः पूज्याः, मोक्षहेतुत्वात् , दर्शनादित्रिकवादिति । यदि वेहेवंभूता परस्य मतिः स्यात्- कथं केन हेतुना ते मोक्षहेतवः ?, तदा तमपि हेतुं कथयामः ।। इति सप्तदशगाथार्थः ॥२९४३॥
या ते हेतवस्तथौहमॅग्गो अविप्पणासो आयारे विणयया सहायत्तं । पञ्चविहनमोक्कारं करोमि एएहिं हेऊहिं ॥ २९४४ ॥
'मग्गे त्ति' अर्हतां नमस्कारार्हत्वे मार्गः सम्यग्दर्शनादिलक्षणो हेतुः, यस्मादसौ तैः प्रदर्शितः, तस्माच्च मुक्तिः, ततश्च पारम्पयेण मुक्तिहेतुत्वात् पूज्यास्त इति । 'अविप्पणासो त्ति' सिद्धानां तु नमस्काराईत्वेऽविप्रणाशः शाश्वतत्वं हेतुः, तथाहि-तदविप्रणाशमवगम्य | पाणिनः संसारवैमुख्येन मोक्षाय घटन्त इति । 'आयारे त्ति' आचार्याणां तु नमस्कारार्हत्वे आचार एव हेतुः, तथाहि-तानाचारवत आचारख्यापकांश्च प्राप्य प्राणिन आचारस्य विज्ञातारोऽनुष्ठातारश्च भवन्तीति । 'विणयय त्ति' उपाध्यायानां तु नमस्काराईत्वे विनयता विनयों हेतुः, यतस्तान् स्वयं विनीतान् प्राप्य कर्मविनयनसमर्थस्य ज्ञानादिविनयस्यानुष्ठातारो भवन्ति । 'सहायत्तं त्ति' साधूनां तु नमस्कारार्हत्वे सहायत्वं हेतुः, यतस्ते सिद्धिवधूसंगमैकलालसानां जन्तूनां तदवाप्तिक्रियासाहाय्यमनुतिष्ठन्तीति । अत एवाह-पश्चविधनमस्कार करोम्येभिर्हेतुभिः ॥ इति नियुक्तिगाथासंक्षेपार्थः ।। २९४४ ॥
विस्तरार्थं त्वभिधित्सुर्भाष्यकारः प्राह
मैग्गोवएसणाओ अरिहंता हेयवो हि मुक्खस्स । तब्भावे भावाओ तयभावेऽभावओ तस्स ॥ २९४५ ॥
मोक्षार्थिनो वा यद् मोक्षहेतवो दर्शनादित्रिककमिव । ततस्तेऽभिवन्दनीया यदिवा मतिहेतवः कथं ते ॥ २९४३॥ २ ज. 'था हे। ३ 'ज. था चाह'। ५ मार्गोऽविप्रणाश आचारी विनयः सहायत्वम् । पञ्चविधनमस्कार करोम्येततुभिः ॥ २९४४ ॥
५ मार्गोपदेशनादहन्तो हेतवो हि मोक्षस्य । तदावे भावात् तदभावेऽभावतस्तस्य ॥ २९४५ ॥
FICE११५७॥
Jan
G
inema
For Personal and
Use Only