________________
विशेषा०
॥११४६॥
Jain Education Intern
अत्र कश्चित् प्रेरयति —
'भिन्नाधारं पिच्छइ नणु रिउसुतो जहा वसइ खम्मि । दव्वं तत्थाहिगयं गुण-गुणिसंबंधचिंतेयं ॥ २९०८ ॥ ननु भिन्नाधारमप्यन्यस्यान्यमप्याधारमृजुसूत्र इच्छत्येव यथाऽनुयोगद्वारेषु वसतिदृष्टान्तमृजुसूत्रमतेनाभिदधता प्रोक्तम्'क्व वसति भवान् ?' 'खे आकाशे वसामि इति । तत् कथमिह भिन्नाधारता निषिध्यते ? इति । अत्रोत्तरमाह - 'दव्वमित्यादि' इदमत्र हृदयम् - द्रव्यं देवदत्तादिकं द्रव्यान्तर आकाशे वर्तत इति मन्यत एव ऋजुसूत्रः । इह तु गुण- गुणिसंबन्धचिन्ता प्रस्तुता | ततोऽन्यगुणोऽन्यत्र वर्तत इतीहासौ न मन्यत इति न कश्चिद् विरोध इति ।। २९०८ ॥
एतदेव व्यक्तीकरोति -
सो संमन्नइ न गुणं निययाहारं तया सयं इहरा । को दोसो जइ दव्वं हवेज्ज दव्वंतराहारं ? ॥२९०९॥ गतार्था, नवरं निजादाधारादाधारान्तरमाश्रयो यस्य स तथा तमेवभूतं गुणं न संमन्यतेऽसाविति ॥ २९०९ ॥ शब्दादिनयमतमधिकृत्याह -
मैं नाणं बेइ य नमो सद्दाई णं
न सद्द- किरिया वि । तेण विसेसेण तयं बज्झम्मि न तेऽनुमन्नति ॥ २९१० ॥ इच्छइ अवि उज्जुसुओ किरियं पि स तेण तस्स काए वि । इच्छंति न सद्दनया नियमा तो तेसिं जीवम्मि॥ २९११ ॥
व्याख्या- यस्मात् शब्दादिमतेन नमो नमस्कारो ज्ञानमेव, न तु शब्द क्रिये अपि, तेन विशेषत एवं तं नमस्कारं तत्कर्तुवाद् बाह्ये वस्तुनि ते शब्दादयो नानुमन्यन्त इति । तर्हि ऋजुसूत्रात् शब्दादीनां न कश्चिद् भेदः, सर्वैरपि कर्तरि नमस्कारस्याभ्युपगमात् । तदयुक्तम्, यत इच्छत्यपि ऋजुसूत्र: 'किरियं पि' क्रियारूपमपि, अपिशब्दात् शब्दरूपमपि नमस्कारम्, तेन तस्य मते 'नमोऽर्हद्भ्यः' इत्यादिशब्दमुच्चारयतः शिरोनमनादिक्रियां च कुर्वतः कर्तुः कायेऽपि स नमस्कारो भवति । शब्दनयास्तु शब्द क्रियारूपं नमस्कारं
१ भिचाधारमपीच्छति ननु ऋजुसूत्रो यथा वसति खे । द्रव्यं तत्राधिकृतं गुण-गुणिसंबन्धचिन्तेयम् ॥ २९०८ ॥ २ स संमन्यते न गुणं निजकाधारं तदा स्वकमितरथा को दोषो यदि द्रव्यं भवेद् द्रव्यान्तराधारम् ? ॥ २९०९ ॥
३ यज्ज्ञानं ब्रुवन्ति च नमः शब्दादयो न शब्द क्रिये अपि । तेन विशेषेण तं बाह्ये न तेऽनुमन्यन्ते ॥ २९१० ॥ इच्छत्यपि ऋजुश्रुतः क्रियामपि स तेन तस्य कायेऽपि । इच्छन्ति न शब्दनया नियमात् ततस्तेषां जीवे ॥ २९११ ॥
For Personal and Private Use Only
बृहद्वतिः ।
॥११४६॥
www.jainelibrary.org