________________
विशेषा०
॥ ११३६॥
Jain Education Internation
पुज्जरसव पज्जाओ तप्पच्चयओ घडायधम्म व्व । तद्धेउभावओ वा घडविण्णाणाभिहाणं व ॥ २८७२ ॥ अथवा, पूज्यस्यैव पर्यायो नमस्कार इति प्रतिज्ञा । 'तप्पञ्चयउ त्ति' पूज्ये 'पूज्योऽयम्' इति प्रत्ययजनकत्वादिति हेतुः । 'घडायधम्म व्वति' घटस्यात्मीयरूपादिवदिति दृष्टान्तः, यथा घटे घटप्रत्ययजनकत्वात् तद्रूपादयस्तत्पर्याया इत्यर्थः । अथवा, अस्यामेव प्रतिज्ञायां 'तद्धेतुभावात्' इति हेतुः - नमस्कारोत्पत्तिहेतुत्वादित्यर्थः । घटविज्ञाना-ऽभिधानवदिति दृष्टान्तः । इयमत्र भावना - नमस्कार्येऽईदादौ दृष्टे भव्यजन्तोर्विशिष्टोल्लासो नमस्कार करणाऽभिप्राय उत्पद्यते, ततस्तन्नमस्कारस्य नमस्कार्यों हेतुः ततस्तद्धेतुभावाद् नमस्कार्यस्यैव पूज्यस्यैव पर्यायो नमस्कारः यथा घटविषयविज्ञाना-ऽभिधाने घटहेतुकत्वाद् घटपर्यायाविति ।। २८७२ ।।
किञ्च, युक्त्यन्तरेणापि पूज्यस्वामिक एवं नमस्कारः कथम् ? इत्याह
अहवास करितो चैत्र तस्स जं भिच्च भावमावन्नो । का तस्स नमोक्कारे चिंता दासखरोवम्मे ॥ २८७३॥
अथवा, यद्यस्मात् स नमस्कारकर्ता नमस्कारं कुर्वाण एव तस्य नमस्कार्यस्या हदादेर्भृत्यभावं दासत्वमापन्नः । ततस्तस्य नमस्कार कर्तुर्नमस्कारे का चिन्ता ? - किं ममत्वम् १ । ननु नमस्कारस्तावद् दूरे तिष्ठतु, तस्यात्मापि नात्मीयः पूज्यस्य भृत्यभावेन समर्पणात् । किंविशिष्टे नमस्कारे चिन्ता न विधेया ? इत्याह- 'दासखरोवम्मे त्ति' दाससंबन्धिना खरेणौपम्यमुपमानं यस्य तस्मिंस्तथाभूते । इदमुक्तं भवति- “दौसेण से खरो कीओ दासो वि से खरो वि से" इति सिद्धान्तोक्तन्यायाद् दासकल्पो नमस्कारकर्ता खरकल्पस्तु नमस्कारः, द्वावप्येतौ नमस्कार्यस्याईदादेखे, न पुनर्नमस्कारकर्तुः किञ्चिदिति किं तस्य चिन्तया ! इति । तदेवं पूज्यस्यैव नमस्कार इति नैगम-व्यवहारनयमतेन प्रतिष्ठितम् ॥ २८७३ ॥
पूज्यं च वस्तु द्विविधम्- जीवरूपं जिनादि, अजीवरूपं च तत्प्रतिमादि । अस्य च जीवाजीवपदद्वयस्यैकवचन बहुवचनाभ्यामष्टौ भङ्गा भवन्ति, तद्यथा- जीवस्य, अजीवस्य जीवानाम्, अजीवानाम्, जीवस्याजीवस्य च, जीवस्याजीवानां च जीवानामजीवस्य च, जीवानामजीवानां च । इमामेवाष्टभङ्गीं सोदाहरणां भाष्यकारः प्राह
१ पूज्यस्यैव पर्यायस्तत्प्रत्ययतो घटात्मधर्म इव । तद्धेतुभावतो वा घटविज्ञानाभिधानमिव ॥ २८७२ ॥ २ अथवा स कुर्वन्नेव तस्य यद् भृत्यभावमापन्नः । का तस्य नमस्कारे चिन्ता दासखरोपम्ये १ ॥ २८७३ ।। ३ दासेन तस्य खरः क्रीतो दासोऽपि तस्य खरोऽपि तस्य ।
For Personal and Private Use Onty
वृहद्वृत्तिः ।
||११३६॥
www.jainelibrary.org